SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ महोपाध्यायश्रीमद्यशोविजयविरचिता परमज्योतिष्पञ्चविंशतिका । " ऐन्द्रं तत् परमं ज्योति - रुपाधिरहितं स्तुमः । उदिते स्युर्यदंशेऽपि, सन्निधौ निधयो नव ॥ १ ॥ प्रभा चन्द्रार्कभादीनां मितक्षेत्रप्रकाशिका | आत्मनस्तु परं ज्योति - लोकालोकप्रकाशकम् ॥ २ ॥ निरालम्बं निराकारं, निर्विकल्पं निरामयम् । आत्मनः परमं ज्योति - र्निरुपाधि निरञ्जनम् ॥ ३ ॥ दीपादिपुद्गलापेक्षं, समलं ज्योतिरक्षजम् । निर्मलं केवलं ज्योति-निरपेक्षमतीन्द्रियम् ॥ ४ ॥ कर्मनो कर्मभावेषु, जागरूकेष्वपि प्रभुः । तमसाऽनावृतः साक्षी, स्फुरति ज्योतिषा स्वयम् ॥ ५ ॥ परमज्योतिषः स्पर्शा - दपरं ज्योतिरेधते । यथा सूर्यकरस्पर्शात्, सूर्यकान्तस्थितोऽनलः ॥ ६ ॥ पश्यन्नपरमं ज्योति - विवेकाद्रेः पतत्यधः । परमं ज्योतिरन्विच्छ - न्नाविवेके निमज्जति ॥ ७ ॥ तस्मै विश्वप्रकाशाय, परमज्योतिषे नमः । केवलं नैव तमसः, प्रकाशादपि यत् परम् ॥ ८ ॥ १‘आत्मज्योतिःस्वरूपपश्चविंशतिका' इत्यभिधानान्तरमस्याः॥२“न वै” प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy