SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ यशोविजयोपाध्यायविरचिता [विवरणप्रशस्तिः। भूतिर्भाग्यमयी स्थिति यमयी शोभामयी सङ्गतिः, श्रीकल्याणविराजमानविजयास्ते वाचकेन्द्रा बभुः॥८॥ हैमव्याकरणं दधीव नियतं व्यालोड्य बुद्ध्या तथा, यैः स्फीतं नवनीतमुद्धृतमहो ! शीतांशुशुभ्रं यशः। ते सारस्वतसारसंग्रहरहःक्रीडानिबद्धादराः, श्रीलाभाद् विजयाभिधानविबुधा भेजुः प्रभुत्वं परम् ॥९॥ तत्राभ्यासनवाङ्कुरः पदविधिव्युत्पत्तिसत्पल्लवः, ___ काव्यालङ्कतिपुष्पितः परिणतीरान्वीक्षिकीहेतुभिः । येषां दागू मयि नन्दनेऽत्र फलिहः कारुण्यकल्पद्रुम स्ते विज्ञाः स्म जयन्ति जीतविजयाः कल्याणकन्दाम्बुदाः१० मामध्यापयितुं सदाऽऽसनसमध्यासीनकाशीमहा सन्नाशीरितयोगदुर्जयपरत्तासी यदीयः श्रमः । आसीचित्रकदिन्दुशुभ्रयशसो दासीकृतक्ष्माभुजो नोल्लासी भुवि तान् नयादिविजयप्राज्ञानुपासीन कः ? ११ एतद्दत्तनिदेशपेशललसत्प्राचीनपुण्योदया दाचीर्णोचितसत्प्रबन्धरचनालग्नेच्छमुद्यच्छता । व्युत्पत्त्यै विदुषां स्फुटं विवरणं चक्रे स्तुतीनामद स्तत्पादाम्बुजसेवकेन यतिना साहित्यसिन्धोः सुधा ।। १२ ।। सूर्याचन्द्रमसौ यावदुदयेते नभस्तले । तावन्नन्दत्वयं ग्रन्थो, वाच्यमानो विचक्षणैः ॥ १३ ॥ ॥ समाप्तेयं खोपज्ञविवरणयुता ऐन्द्रस्तुतिचतुर्विंशतिका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy