SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः] ऐन्द्रस्तुतिचतुर्विंशतिका । ८५ रङ्गन्मङ्गलवृत्तगीतविजितानङ्गप्रसङ्गप्रथा श्रेयःसङ्गभृदङ्गजङ्गमजगत्कल्पद्रुमस्तुङ्गधीः । दुर्व्यासङ्गमतङ्गजबजहरिनिर्भङ्गसौभाग्यभूः, __ स श्रीमत्तपगच्छमण्डनमभूत् श्रीहीरसूरीश्वरः॥३॥ तत्पट्टप्रथितप्रभुत्वनलिनप्रोल्लासने भास्करः, सूरिश्रीविजयादिसेनसुगुरुर्बभ्राज राजस्तुतः । गोहोराजसभात्मके विलसितां प्रत्यर्थिकीर्तिस्फुर दूर्वाग्रासपरां स्म नित्यमिह यो गां दोन्धि दुग्धं यशः ॥४॥ तत्पट्टप्रभुतालताजलधरः शिष्टप्रियो द्योतते, सूरिश्रीविजयादिदेवसुगुरुर्माहात्म्यलीलागृहम् । यस्याऽऽचाम्लपयःप्लुतेऽपि हृदये चित्रं तदुद्वीक्ष्यते, नाभूद् यज....तानपङ्कसहिता यच्च क्षमा वर्तते ॥ ५ ॥ तत्पट्टप्रभुतैककार्मणगुणग्रामाभिरामाकृतिः, - सूरिश्रीविजयादिसिंहसुगुरुर्जागर्ति धामाधिकः । गङ्गातो यमुना विधोश्च न मिदां राहुर्गतः सर्वतः, शुभ्रे यस्य यशोभरे प्रसृमरे श्यामा त्रियामाऽपि न ॥६॥ इतश्चगच्छे स्वच्छतरे तेषां, परिपाट्योपतस्थुषाम् । कवीनामनुभावेन, नवीनां रचनां व्यधाम् ॥ ७ ॥ तथाहिलावण्यैकमयी तनुर्ननु मुखे जिह्वा च विद्यामयी, कीर्चिः स्फूर्तिमयी मति तिमयी येषां कथा चिन्मयी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy