________________
यशोविजयोपाध्यायविरचिता [ मूल- विवरण
"कुम्मसुसंठिअचलणा, अमलियकोरंटविंटर्सकासा । सुअदेवया भगवई, मम मइतिमिरं पणासेउ || " इत्यादिना गणधरैरपि भगवत्याः प्रणिधानात् श्रुतप्रामाण्यस्याप्याप्यत्वात् ॥ ४ ॥
॥ इति श्रीवर्द्धमानस्तुति विवरणं समाप्तम् ॥ २४ ॥
॥ अथ मूलप्रशस्तिः ॥
८४
--
यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशया, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः,
सोऽयं न्यायविशारदः स्म तनुते विज्ञः स्तुतीरर्हताम् ॥१॥ कृत्वा स्तुतिस्रजमिमां, यदवापि शुभाशयान्मया कुशलम् । तेन मम जन्मबीजे, रागद्वेषौ विलीयेताम् ॥ २ ॥ ॥ मूलग्रंथाग्रं - २१० ॥
॥ अथ विवरणप्रशस्तिः ॥
कृत्वा विवरणमेतज्जिनस्तुतीनां यदर्जितं पुण्यम् । तेन मम जन्मबीजे, रागद्वेषौ विलीयेताम् ॥ १ ॥ मन्थाः श्रीमदकब्बर क्षितिपतिस्तत्त्वोपदेशाम्बुधिः,
कुर्वाणा मथनं च तस्य विबुधा यस्याऽभवन् कोटिशः । अभ्युत्थापयितुं सुदर्शनभृतः प्रोद्दामकीर्त्तिः स्वयं,
संभोग्यां पुरुषोत्तमस्य नरकप्रध्वंसिपुण्यात्मनः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org