________________
--
द्वितीयं साधुधर्मपरिभावनासूत्रम् । संबन्धम् , चिन्तयेत् अभिनवप्राप्तान गुणान् स्थूरप्राणातिपातविरमणादीन् , अनादिभवसङ्गतांश्च अगुणान् सदैवाविरतत्वेन, उदग्रसहकारित्वमधर्ममित्राणाम् अगुणान् प्रति । उभयलोकगहितत्वं तत्पापानुमत्यादिना, अशुभयोगपरंपरां च अकुशलानुबन्धतः । ३. परिहरेज्जा सम्मं लोगविरुद्धे अणुकंपापरे जणाणं, न 5 खिंसावेज्ज धम्म, संकिलेसो खु एसा, परमबोहिबीयं अबोहिफलमप्पणो ति । एवमालोचेज्जा न खलु एत्तो परो अणत्यो, अंधत्तमेयं संसाराडवीए, जणगमणिवायाणं, अइदारुणं सरूवेणं असुहाणुबंधमच्चत्थं ।
तथा परिहरेज्जा इत्यादि । परिहरेत् सम्यग् लोकविरुद्धानि तद- . 10 शुभाध्यवसायादिनिबन्धनानि । अनुकम्पापरो जनानाम् , मा भूत्तेषामधर्मः। न खिसयेद्धर्मम् , न गर्हयेज्जनैरित्यर्थः । संक्लेश एवैषा खिसाऽशुभभावत्वेन । परम् अबोधिबीजं तत्प्रद्वेषेण । अबोधिफलमात्मन इति, जनानां तन्निमित्तभावेन । तथा एवमालोचयेत् सूत्रानुसारेण न खल्वतः परोऽनर्थोऽबोधिफलात् तत्कारणभावाद्वा, लोकविरुद्धत्वादिति । अन्धत्वमेतत् 15 संसाराटव्यां हितदर्शनाभावेन । जनकमनिष्टपातानाम् ,, नरकाद्युपपातकारणतया । अतिदारुणं स्वरूपेण, संक्लेशप्रधानत्वात् ।। अशुभानुबन्धमत्यर्थ परम्परोपघातभावेनेति । अत एवोक्तम्- .
लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥ [ प्रशम० १३१] इत्यादि । 20
१ करुणापरे K विना ।। २ °मालोएजा K. K1 विना ।। ३ मणिठ्ठावायाणं K. K1 विना ॥४"लोको जनपदः । खलुशब्दोऽवधारणे । लोक एवाधारः। सर्वेषां ब्रह्मचारिणां यस्मात् । ब्रह्म संयमः सप्तदशभेदः। तद्योगात् संयमिनः । तेषां सर्वेषामिति गच्छवासिना गच्छनिर्गतानां च । तस्माल्लोके यद्विरुद्धं जातमृतकसूतक समूहनिराकृतादिगृहेषु भिक्षादिग्रहणम-. भोज्येषु च परिहार्यम् । यच्च लोकैकदेशे विरुद्धं मद्य-मांस-लशुन-बी नानन्तकाया द धर्मसाधनविरुद्ध- मनेकं तदपि परिहार्यमिति ॥१३॥” इति प्रशमरतिटीकायाम् ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org