________________
__. द्वितीयं साधुधर्मपरिभावनासूत्रम् ।
२५ अधुना द्वितीयसूत्रव्याख्या प्रस्तूयते । अस्य चायमभिसंबन्धः-इह धर्मगुणबीजमाहितं सत् तत्तद्वैचित्र्यात् तत्तत्कालादिनिमित्तभेदेन विपच्यते एतदाभिमुख्येन । तत एव धर्मगुणप्रतिपत्तिश्रद्धोपजायते । तस्यां समुपजातायां यत् कर्तव्यं तदभिधातुमाह
जायाए धम्मगुणपडिवत्तिसद्धाए, भावेज्जा एएसिं सरूवं पयइ- 5 सुंदरतं, आणुगामित्तं, परोवयारित्तं, परमत्थहेउत्तं । तहा दुरणुचरतं, भंगदारुणतं, महामोहजणगत्तं, भूयो दुल्लहत्तं ति । भावेऊणेवं जहासत्तीए उचियविहाणमेव अच्चंतभावसारं पडिवज्जेज्जा, तंजहा-थूलगपाणाइवायविरमणं १, थूलगमुसावायविरमणं २, थूलगअदत्तादानविरमणं ३, थूलगमेहुणविरमणं ४, थूलगपरि- 10 ग्गहविरमण ५ मिचाइ ।
जायाए धम्मगुणपडिवत्तिसद्धाए इत्यादि । जातायां धर्मगुणप्रतिपत्तिश्रद्धायां भावतस्तथाविधकर्मक्षयोपशमेन, भावयेत् एतेषां स्वरूपं धर्मगुणानाम् । प्रकृतिसुन्दरत्वं जीवसंक्लेशविशुद्धया। आनुगामुकत्वं भवान्तरवासनानुगमेन । परोपकारित्वं तथापीडादिनिवृत्या । परमार्थहेतुत्वं 15 परंपरया मोक्षसाधनत्वेन । तथा दुरनुचरत्वं सदैवानभ्यासात् । भङ्गदारुणत्वं भगवदाज्ञाखण्डनतः । महामोहजनकत्वं धर्मदूषकत्वेन । भूयो दुर्लभत्वं विपक्षानुबन्धपुष्टयेति । भावयित्वा एवमुक्तेन प्रकारेण यथाशक्ति शक्त्यनुरूपम् , न तद्धान्याधिक्याभ्याम् , उचितविधानमेव शास्त्रोक्तेन विधिना, अत्यन्तभावसारं महता प्रणिधानबलेन प्रतिपद्येत धर्मगुणान् न राभसिकया 20 प्रवृत्त्या, अस्या विपाकदारुणत्वात् । किंभूतांस्तान् ? इत्याह-तंजहा इत्यादि ।
१ ०मुख्येतस्तत एव S. || २ भंगे K1. K.S. विना। ३ भावेऊण नास्ति K1. K.S. विना । अत: K1. K.S. विना-' एवं जहासत्तीए' इत्येव पाठः।। ४ विहाणेण K1K विना ॥ ५ ०ग्गहाओ वेर K. ॥ ६ भले A.B | ७ भाव इति एव° A.B ||
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org