SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्रथमं पापप्रतिघातगुणबीजाधानसूत्रम् । सूत्रपाठे फलमाह - " एवमेयं सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स सिढिलीभवंति परिहार्यंति खिज्जंति असुहकम्माणुबंधा | आनीतं भक्तपानादि तृणकाष्ठादिहारिभिः । दत्तं च तैः प्रासुकं च गृहीत्वा पारयन्मुनिः ॥४३॥ काष्ठादिहारकास्ते च गत्वा चख्युः स्वभुभुजाम् । देवरूपः पुमान् कोऽपि चरन्नस्ति वने तपः ॥ ४४ ॥ इत्याशशंकिरे ते च किमस्मद्राज्यकांक्षया । करोति तप ईदृक्षं मन्त्रं वा साधयत्यसौ ॥ ४५ ॥ इमं हन्मस्ततो गत्वेत्यालोच्य युगपच्च ते । ईयुः सर्वाभिसारेण मुने रामस्य सन्निधौ ॥ ४६ ॥ ततश्च देवः सिद्धार्थस्तस्य सन्निहितः सदा । विचक्रेऽनेकशः सिंहाञ्जगतोऽपि भयंकरान् ||४७ || राजानश्वकितास्ते च नमस्कृत्य बलं ययुः । नरसिंह इति ख्यातो बलभद्रस्तदाद्यभूत् ॥४८॥ वने तपस्यतस्तस्य धर्मदेशनयामैया । वासिता व्याघ्रसिंहाद्या बहवः प्रथमं ययुः ॥ ४९ ॥ asपि श्रावकतां भेजुः केऽपि भद्रकतां पुनः । कायोत्सर्गं व्यधुः केऽपि केऽपि चानशनं तदा ॥५०॥ मांसाहारान्निवृत्तास्ते बभूवुः पारिपार्श्विकाः । तिर्यमूपधराः शिष्या इव राममहामुनेः ॥५१॥ रामप्राग्भवसंबन्धः कोऽपि जातिस्मरो मृगः । अतिसंवेगमापन्नः सदा सहचरोऽभवत् ॥ ५२ ॥ उपास्योपास्य रामर्षि स मृगो वनमभ्रमत् । अगवेषयदायातान् सान्नान् काष्ठादिहारिणः ||५३|| यदापश्यत्तदेवैत्य रामर्षि ध्यानसंस्थितम् । पर्यस्यन् शिरसा पादे भिक्षादातृन् व्यजिज्ञपत् ॥ ५४ ॥ रामस्तदुपरोधेन ध्यानं मुक्त्वा क्षणादपि । भिक्षायै निरगात्तेन हरिणेनाग्रगामिना ॥५५॥ तत्रान्येद्युर्वने भव्यदारुभ्यो रथकारुकाः । आययुश्चिच्छिदु श्रपि वृक्षान् सारानृजून् बहून् ॥५६॥ तान् प्रेक्ष्य स भ्रमन्नेः सद्यो राममजिज्ञपत् । ध्यानं चापारयत्तस्योपरोधात् स महामुनिः ॥५७॥ dy भोक्तुं निषण्णेषु भिक्षार्थ मासवारणे । रामर्षिराययौ तत्र हरिणेनाग्रगामिना ॥५८॥ रथकाराग्रणी रामं प्रेक्ष्य प्रीतो व्यचिन्तयत् । अहो अत्राप्यरण्येऽसौ कल्पद्रुरिव कोऽप्यृषिः ||५९ || अहो रूपमहो तेजः प्रशमः कोऽप्यहो महान् । कृतार्थः सर्वयाप्यस्मि मुनिनातिथिनामुना ||६० || रथकारो विचिन्त्यैवं पञ्चांगस्पृष्टभूतलः । बलर्षये नमस्कृत्य भोज्यपानान्युपानयत् ॥६१॥ अथ दध्यौ बलमुनिः श्राद्धः कोऽप्येष शुद्धधीः । कर्मार्जितुं स्वर्गफलं भिक्षा मे दातुमुद्यतः ॥६२॥ न चेद् गृह्णाम्यमूं भिक्षां तदेतस्य हि सङ्गतेः । कृतो मयान्तरायः स्वाद् गृह्णाम्येतेन हेतुना ॥ ६३॥ एवं विचिन्त्य भगवान् कारुण्यक्षीरसागरः । स्वकायनिरपेक्षोऽपि भिक्षां तस्मादुपाददे ॥६४॥ ऊर्ध्वानिनो मृगः सोऽपि बाष्पांभःप्लावितेक्षणः । मुनिं वनच्छिदं चापि पश्यन्निदमचिन्तयत् ॥६५॥ अहो कृपानिधिः स्वामी निरपेक्षो वपुष्यपि । अन्वग्रहीद्रयकारं तपसामेक आश्रयः अहो वनच्छिद्धन्योऽयं जन्म चास्य महाफलम् । येनायं भगवानेवं पानान्नैः प्रतिलंभितः ॥६७॥ अहं पुनर्मन्दभाग्यो न तपः कर्तुमीश्वरः । प्रतिलभयितुं नापि धियां तिर्यक्त्वदूषितम् ॥६८॥ एवं त्रयोऽपि ते यावद्धर्मध्यानपराः स्थिताः । महावाताहतस्तावदर्धच्छिन्नो ऽपतत्तरुः ते तरुणा तेन पतितेन हता मृताः । पद्मोत्तर विमानान्तर्ब्रह्मलोकेऽभवन् सुराः इति त्रिषष्टिशलाका पुरुषचरिते ऽष्टमे पर्वणि द्वादशे सर्गे ॥ ॥६६॥ ॥६९॥ ||७०||” १ अग्रया श्रेष्ठया ॥। २ एणो मृगः ॥ Jain Education International For Private & Personal Use Only 5 10 15 4.1 20 25 30 www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy