________________
प्रथम पापप्रतिघातगुणवीजाधानसूत्रम् ।
5
10
15
प्राणिकरुणादयः । यथोक्तम्-"दया भूतेषु संवेगो विधिवद् गुरुपूजनम् । विशुद्धा शीलवृद्धिश्च पुण्यं पुण्यानुबन्ध्यदः ॥१॥" सम्यग्-यथावद् अवसेयमिदम् । न हि पूर्णकारणारब्धा भावाः. कदाचिद् निरनुबन्धा भवितुमर्हन्ति, अन्यथा तत्तयाऽनुपपत्तेः ॥२४॥ ननु क्रियामात्रमण्याज्ञाबहुमानशून्यानां कथं ज्ञायते ? इत्याशंक्याह;
किरियामेत्तं तु इहं जायति लद्धादवेक्खयाए वि ।
गुरुलाघवादिसन्नाणवज्जियं पायमियरेसि ॥२४१॥ क्रियामानं पुनरुक्तरूपमिह-दूरभव्येष्वभव्येषु च जायते लब्ध्याद्यपेक्षयापि, इह लब्धिर्वस्त्रपात्रकीर्त्यादिलाभलक्षणा गृह्यते, आदिशब्दात् स्वजनाद्यविरोधकुललज्जादिग्रहः, तान्यप्यपेक्ष्य स्यात् । गुरुलाघवादिसंज्ञानवर्जितं, गुणदोषयोः प्रवृत्तौ गुरुलाघवमादिशब्दात् सत्त्वादिषु मैत्र्यादिभावग्रहस्तेषु यत्संज्ञानं शुद्धसंवेदनरूपं तेन विनिर्मुक्तं प्रायो बाहुल्येनेतरेषां शुद्धाज्ञाबहुमानविहीनानामिति ॥२४१॥
पत्तो उ निरणुपंधं मिम्मयघडसरिसमो फलं णेयं ।
कुलडादियदाणाइसु जहा तहा हंत एयंपि ॥२४२।। इतस्तु-क्रियामात्रात् पुनर्निरनुबन्धम्-उत्तरोत्तरानुबन्धशून्यम् , अत एव 'मिम्मयघडसरिसमो' इति मृत्तिकामयघटसदृशं फलं पुण्यबन्धलक्षणं ज्ञेयम् । पुनरपि दृष्टान्तान्तरेण भावयति-कुलटाया दुश्चारिण्याः स्त्रिया द्विजदानादयो ब्राह्मणविभववितरण-पर्वदिवसोपवास-तीर्थस्नानप्रभृतयो ‘धर्मक्रियाविशेषास्तेषु यदा निरनुबन्धं फलं, तथा, हन्तेति कोमलामंत्रणे एतदपि क्रियामात्रजन्य पुण्यमिति ॥२४२॥
तम्हा भावो सुद्धो सव्वपयत्तेण हंदि परलोए ।
कायध्वो बुद्धिमया आणोवगजोगतो णिच्चं ॥२४३॥ यस्मादेवं क्रियामा निरनुबन्धफलं तस्माद-भावो-मनःपरिणामः शुद्धो-रागद्वेषमोहमलविकलः सर्वप्रयत्नेन-सर्वस्वसामर्थ्यागोपनरूपेण, हंदीत्युपप्रदर्शने, परलोके-स्वर्गापवर्गादिलक्षणे साध्ये कर्तव्यो-घटयितव्यो बुद्धिमता-प्रशस्तमतिना पुरुषेण । कथमित्याह-'आज्ञोपगयोगतो' आज्ञामुप- . गच्छन्ति-अनुवर्तन्ते ये ते आज्ञोपगास्ते च ते योगाश्च-अनुष्ठानभेदाः तेभ्यो, जिनाज्ञीनुसारिणो धर्मारम्भान् प्रतीत्येत्यर्थः, नित्यम्-अहर्निशमिति ॥२४३॥ सम्प्रत्याज्ञामेव पुरस्कुर्वन् दृष्टान्तमाह;
जो आणं बहु मन्नति सो तित्थयरं गुरुं च धम्मं च ।
साहेति य हियमत्थं एत्थं भीमेण दिटुंतो ॥२४४॥ यो जन्तुरासन्नभव्य आज्ञाम्-उक्तरूपां बहु मन्यते-पुरस्करोति, स-आज्ञाबहुमन्ता तीर्थकरम्अर्हन्तं गुरुं च धर्माचार्य धर्म च श्रुतचारित्ररूपं बहु मन्यते, आज्ञाबहुमानस्य तीर्थकरादि: बहुमानाविनाभूतत्वाद् । साधयति घटयति, चः समुच्चये, हितं-कल्याणरूपमर्थ पुरुषार्थलक्षणम् ।
मावलक्षणम् । अत्र-अस्मिन्नाज्ञाबहुमाने भीमेन राजसूनुना दृष्टान्तः-उदाहरणं वाच्यम् ॥ २४४ ॥” इति आचार्यश्रीहरिभद्रसूरिविरचिते मुनिधन्द्रसूरिविरचितवृत्तिसहिते उपदेशपदे ॥ ___ "एवं पुण्णं पि दुहा मिम्मयकणयकलसोवमं भणियं । अण्णेहि वि इह मन्दो नामविवज्जासमेएणं ॥८७॥ एवं पुण्यमपि द्विधा द्विप्रकारम् । कथम् ? इत्याह-मृण्मय-कनककलशोपमं भणितम् । एकं मृण्मयकलशोपमं क्रियामात्रजन्यमफलं सत् तत्फलदानस्वभावं वा । अन्यत् कनककलशोपमं विशिष्टभावनाजन्यं तथा तथा फलान्तरसाधनत्वेन प्रकृष्ट
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org