SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 10 आचार्यश्रीहरिभद्रसूरिविरचितटोकासमलङ्कृते पञ्चसूत्रके उपाध्यायेषु वा, साधुषु वा, साध्वीषु वा, अन्येषु वा धर्मस्थानेषु सामान्येन गुणाधिकेषु, माननीयेषु पूजनीयेषु । तथा मातृषु वा, पितृषु वा, अनेक जन्मापेक्षं बहुवचनम् । बन्धुषु वा, मित्रेषु वा, उपकारिषु वा, ओघेन वा जीवेषु, मार्गस्थितेषु सम्यग्दर्शनादियुक्तेषु, अमार्गस्थितेषु एतद्विपरीतेषु,मार्गसाधनेषु पुस्तकादिषु, अमार्गसाधनेषु, खड्गादिषु, यत्किश्चिद विनथमाचरितं अविधिपरिभोगादि । अनाचरितव्यं क्रियया । अंनेष्टव्यं मनसा । पापं पापकारणत्वेन, पापानुवन्धि, तथाविपाकभावेन । सूक्ष्म वा बादरं वा स्वरूपतः । कथमेतदाचरितम् ? इत्याह-मनसा वा वाचा वा कायेन वा । कृतं वात्मना १ । कारितं वान्यैः २ । अनुमोदितं वा परकृतम् ३ । रतदपि रागेण वा द्वेषेण वा मोहेन वा । अत्र वा जन्मनि, जन्मान्तरेषु वा अतीतेषु । गर्हितमेतत् कुत्सास्पदम् । दुष्कृतमेतत् सेंद्धर्मबाह्यत्वेन, । उज्झितव्यमेतत् हेयतया । विज्ञातं मया कल्याणमित्रगुरुभगवद्रचनात् । भगवद्वचनप्राप्तौ प्राय इयमानुपूर्वीत्येवमुपन्यासः । एवमेतदिति रोचितं श्रद्धया तथाविधकर्मक्षयोपशमजया । ततः किम् ? इत्याहअर्हत्सिद्धसमक्षं तानधिकृत्य गर्हेऽहमिदं कुत्सामीत्यर्थः। कथम् ? इत्याहवितहमायरिअं अणायरिअव्वं अणिच्छिअवं पावं पावाणुबंधि सुहम वा बायरं वा मणेणं वा बायाए वा कारणं या कयं वा काराविरं वा अणुमोइअं वा रागेण वा दोसेग वा मो हेण वा इत्थं वा जम्मे जम्मन्तरेसु वा गरहियमेयं दुकडमेयं उझियध्वमेअं वियाणि मए कल्लांणमित्तगुरुभगवतवरणाओ एवमेअं ति रोइअं सद्धाए अरहंतसिद्धसमक्खं गरहामि अहमिणं दुक्कडमेअं उज्झियवमेअं इत्थ मिच्छामि दुक्कडं ३।” एतद्व्याख्या यथा-चतुःशरणगमनान्तरं दुष्कृतगोक्ता, तामाह-शरणमुपगतश्च सन्नेतेषामहदादीनां रहें दुष्कृतम् । किविशिष्टम् ? इत्याह-जण्णं अरहतेसु वा इत्यादि, अहंदादिविषयमोघेन वा जीवेषु मार्गस्थितेषु सम्यग्दर्शनादियुक्तेषु, अमार्गस्थितेषु एतद्विपरीतेषु, मार्गसाधनेषु पुस्तकादिषु, अमार्गताधनेषु खङ्गादिषु, यत्किंचिद्वित्थमाचरितम् अविधिपरिभोगादि, अनाचरितव्यं क्रियया, अनेष्टयं मनसा, पापम् पापकारणत्वेन, पापानुबन्धि तथा विपाकभावेन, गहितमेतद् कुत्साऽऽस्पदम् , दुष्कृतमेतद् धर्मबाह्यत्वेन, उज्झितव्यमेतद् हेयतया, विज्ञातं मया कल्याणमित्रगुरुभगवद्वचनाद्, एवमेतद् इति रोचितं श्रद्धया तथाविधक्षयोपशमजया, अहसिद्धसमक्षं गहें, कथम् ? इत्याह-दुकृतमेतद् , उज्झितव्यमेतद् । अत्र व्यतिकरे 'मिच्छामिदक्कड' व.रत्रयं पाठः । इति यशोविजयवाचकविरचितायां धर्मपरीक्षास्वोपशवृत्तों पृ० २३-२४ ।। ५ इत्यादिना दुष्कृतनिर्देशः H.॥ १ सामान्येषु गुणा° H. || २ गादिना अना° H. S. विना ॥ ३ "अनिच्छाविषयतया कर्तव्यमित्यर्थः" Aटि० ॥ ४ मनसा वा वाचा कायेन वा S.। मनसा वाचा वा कायेन वा A. B. । मनसा वाचा कायेन वा H. || ५ तद्धर्म H. ॥ ६ तामधि H. || 15 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy