________________
आचार्यश्रीहरिभवसरिषिरचितटीकासमककृते पञ्चसूत्रके किरिति ? इत्पाह-सुरासुरमनुजैः पूजितः सुरासुरमनुजपूजितः। सुरा ज्योलिक-बैमानिकाः। असुरा व्यन्तर-भवनपतयः । मनुजाः पुरुष-विद्याधराः।
अयमेव विशेष्यते-मोहतिमिरंसुमाली। मोहस्तिमिरमिव मोहतिमिरं सार्शमावारकरपेन, तस्यांशुमालीवांशुमाली, तदपनयनादादित्यकल्पः ।
अयमेव विशेष्यते-रागदोसविसपरममंतो । राग-द्वेषौ विषमिव रागद्वेषविषक, तस्य परममन्त्रः, तद्घातित्त्वेनेति भावः।।
अयमेव विशेष्यते-हेऊ सयलकल्लाणाणं । हेतुः कारणं प्रवर्तकत्वादिना सकलकल्याणानां सुदेवत्वादीनाम् ।
अयमेव विशेष्यते-कम्मवणविहावसू । कर्मवनस्य ज्ञानावरणीयादिसमुदयरूपाय विभावसुरिवाग्निरिव, तदाहकत्वेन ।
. अयमेव विशेष्यते-साहगो सिद्धभाषस्स । साधकः मिर्षक: सिद्ध भाषस्य सिद्धत्वस्य, तथा तत्संपादकत्वेन ।
कोऽयमेवं किं वेत्याह-केवलिपण्णत्तो धम्मो । केबलिप्रज्ञप्तः केवलिप्ररूपितः धर्मः श्रुतादिरूपः जावज्जीवं मे भगवं, 'यावज्जीवम्' इति पूर्ववत् मे मम भगवान् समग्रैश्वर्यादिगुणयुक्तः शरणम् आश्रय ।। ४ एतच्चतुःशरणगमनम् एकार्थसाधकत्वेन प्रभूतानामप्यविरुद्धमेव । अत एव परमार्थ(र्ष)म्--र
५चत्तारि सरणं पवज्जामि-अरहते सरणं पवज्जामि, सिद्धे सरणं पवजामि, 'साह सरण पवज्जामि, केवलिपण्णत्तं धम्म सरणं पवज्जामि [ आव. ४] २ इति ।
10
15
20
१ समुदायस्य H. ॥ २ तथा तथा (संपादकत्वेन S. ॥ ३ माश्रय इति । चतुःशरणगमनम् H. ॥ ४ अत्र 'पारमर्षम्' इत्यपि पाठो भवेत् । 'परमार्षम्' इति पाठे. तु 'परमं च तदार्ष च' इति विग्रहः कार्यः ॥ ५ "चत्वा(तु)रः संसारभयपरित्राणाय 'शरणं प्रपद्ये' आश्रयं गच्छामि भेदेन तानुपदर्शयन्नाह-'अरिहंते'त्यादि, 'अर्हतः शरणं प्रपद्ये' सांसारिकदुःखशरणायाहत आश्रयं गच्छामि, भक्तिं करोमीत्यर्थः, एवं सिद्धान् शरणं प्रपद्ये, साधम् शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरण प्रपद्ये ॥” इति आवश्यकसूत्रस्य हरिभद्रसूरिविरचितायो वृत्ती ॥ ६ इति नास्ति H. ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org