________________
63
प्रथमं पापप्रतिघातगुणबीजाधानसूत्रम् । ऐत एव विशेष्यन्ते-पउमाइनिर्दसणा । पद्मादीनि पङ्कोत्पत्ति जलस्थितिभावेऽपि तदस्पर्शनेन कामभोगापेक्षयैवमेव भाव इति निदर्शनानि येषां ते पद्मादिनिदर्शनाः, आदिशब्दाच्छरत्सलिला दिग्रहः । __एत एवं विशेष्यन्ते-झाणज्झयणसंगया ध्याना-ऽध्ययनाभ्यां एकाग्र-06 चिन्तानिरोध-स्वाध्यायलक्षणाभ्यां संगताः ध्याना-ऽध्ययनसंगताः। ____एत एव विशेष्यन्ते-विसुज्झमाणभावा । विशुध्यमानो विहितानुष्ठानेन भावो येषां ते विशुध्यमानभावाः ।
क एवंभूताः ? किं वा एते ? इत्याह साहू सरणं । तत्र सम्यग्दर्शनादिभिः सिद्धि साध्यन्तीति साधवः, मुनय इत्यर्थः । ते मम शरणमाश्रय इति ।
. 10
तहा सुरासुरमणुयपूइओ, मोहतिमिरंसुमाली, रागदोस- । विसपरममंतो, हेऊ सयलकल्लाणाणं, कम्मवणविहावसू , साहगो सिद्धभावस्स, केवलिपण्णत्तो धम्मो जावज्जीवं मे भगवं सरणं ॥
तहा सुरासुरमणुयपूजिओ 'केवलिपण्णत्तो धम्मो जावज्जीवं मे भगवं सरणं' इति योगः।
तथा न केवलं साधयः शरणम् , किन्तु केवलिंप्रज्ञप्तो धर्म इति संबन्धः ।
15
१ त एव H. || २ ०त्पन्नजल० H. I तुला-“पुरुषवरपुण्डरीकेभ्यः इति । पुरुषाः पूर्ववत् , ते वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि । यथा पुण्डरीकाणि पड्के जातानि जले वर्धितानि तदुभयं विहाय वर्तन्ते प्रकृतिसुन्दराणि च भवन्ति, निवासी भुवनलम्या:, आयतनं चक्षुराद्यानन्दस्य, प्रवरगुपयोगतो विशिष्टतिर्यग्नरामरैः सेन्यन्ते सुखहेतनि भवन्ति च, तथैतेऽपि भगवन्तः कर्मपड़े जाताः दिव्यभोगजलेन वर्धिताः उभयं विहाय वर्तन्ते, सुन्दगश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवो दर्शनाद्यानन्दस्य केवलादिगुणभाबेन भव्यसत्त्वैः सेव्यन्ते, निर्वाणनिबन्धनं च जायन्ते” इति ललितविस्तरायाम् ॥ ३ कामलोकापेक्ष Sमू. । कामनालपापक्षo H. । (कामजलापेक्ष० ?) ॥ ४ दिपरिग्रहः H. ॥ ५ "उत्तमसंहननस्य एकाग्रचिन्तानिरोधो ध्यानम् ॥९॥२८॥” इति तत्त्वार्थसूत्र ॥ ६ पूई मो0 K1 ॥ ७ इति योगः इति सम्बन्धः H. ॥ ८ इति योगः इति सम्बन्धः H. ||
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org