________________
10
प्रथमं पापप्रतिघातगुणबीजाधानसूत्रम् । २५. ५ तद्वयवच्छेदार्थ, वीतरागादिग्रहणमिति । व्यवच्छेदश्चेह · सर्वत्र गुणप्रकर्षवान् स्तवाई इति तस्ये, तत्संपादने तदन्तर्गतगुणानां तत्संपादनमेव ईति न्यायख्यापनार्थमितिः । न ] तु निराकरणार्थमेव । - एभिश्चतुर्भिर्विशेषणपदैरपायापगमातिशयादयश्चत्वारो मूलातिशया उक्ता वेदितव्याः । तद्यथा-अपायापगमातिशयः १, ज्ञानातिशयः २, पूजातिशयः ३, वागतिशयश्च ४, यथोदेशमेव च वेदितव्याः , अनेनैव क्रमेणैतेषां भावात् । तथाहि-वीतरागो १ भूत्वा सर्वज्ञो २ भवति, सर्वज्ञस्य च पूजातिशयसंभवः ३, तदनु धर्मदेशना ४ इति अनेनैव क्रमेणैतेषां भाव इति । एतदविनाभाविनशान्येऽपि देहसौगन्ध्यादयः प्रभूता वेदितव्याः । ततश्च 'चतुस्त्रिंशदतिशयसमन्वितेभ्यः परमात्मभ्यो नमः ' इत्युक्तं भवति । ___ अत एव सकलविशेषणार्थोपसंहारेणाह-तेलोकगुरूणं अरुहंताणं भगवंताणं ति। त्रैलोक्यगुरुभ्यः, त्रैलोक्यवासिसत्त्वेभ्यो गृणन्ति शास्त्रार्थमिति त्रैलोक्यगुरवः, तद्गुणाधिकत्वात् तन्माननीयत्वाद्वा, तेभ्यो नमः। ऎतानेव सनिबन्धनेनान्वर्थनाम्नाऽऽह-अरुहेभ्यो भगवद्भय इति । न रोहन्ति न भवाङ्करोदयमासादयन्ति कर्मबीजाभावादिति अरुहाः, तेम्यः । किंविशिष्टेभ्यः ? भगः समग्रेश्वर्यादिलक्षणः, स विद्यते येषां ते भगवन्तः, तेभ्यो भगवद्भयो नम इति । एवंभूताश्च ते समधिकृतातिशयभाजश्वरमदेहस्था अपि, ततो मुक्तिभावे जन्माङ्कुरोदयाभावात् ।
___ अत एवाह एतदुक्तार्थसूत्रानुवादकृत्-जे एवमाइक्खंतीति । एवं चानन्तरेण 20 ग्रन्थेनेष्टदेवतानमस्कारः अनुवादकरणस्यापि श्रेयोभूतत्वेन तदारम्भे विघ्नविनायकोपशान्तये मङ्गलार्थ उक्तो वेदितव्यः ।
ये वीतरागादिविशेषणविशिष्टा भगवन्त एवम् इति वक्ष्यमाणम् आचक्षते अत्यर्थ व्यक्तमभिदधति । कथम् ? इत्याह- इह खलु अणादिजीवे, इह खल्वनादिजीवः । इह लोके, खलुशब्दोऽवधारणार्थः, लोके एव नालोके,
15
25
१ ०रपायातिशया० S.॥ २ अपायातिशयः S० ॥ ३ ° अर ° S. H || ४ एतेनैव A B ॥ ५ कर्मभावबीजा° H. || ६ अत्र H. मध्ये एक पत्रं नास्ति, ततः 'स्था इत्यत आरभ्य इह खल्व' [पृ. ५ पं० २३ ] इतिपर्यन्तः पाठः H. मध्ये नास्ति। ७ नालोको ये अनादिः H.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org