________________
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके
-३२१ परिणाम एव । एतदुपलक्षणं 'वीतराग'ग्रहणम् । तथा चाह-सवण्णूणं, सर्वज्ञेभ्यः। न ह्यवीतरोगा इव अत्रीतद्वेषादयः सर्वज्ञा भवन्ति । सर्व जानन्तीति सर्वज्ञाः, तेभ्यो नमः।
... आह-ये वीतरागास्ते सर्वज्ञा एवेति गतार्थ विशेषणम् , न, छद्मस्थवीत5 रागाणामसर्वज्ञत्वात् । यद्येवं 'सर्वज्ञेभ्यः' इत्येतावदेवास्तु, अलं 'वीतराग'ग्रहणेन, २१
न, अवीतरागाणामपि सकलशास्त्रविदामुपचारेण सर्वज्ञव्यवहारसिद्धस्तद्वयवच्छेदार्थ 'वीतराग'ग्रहणमिति ।
एतद्विशेषणायैवाह-देविंदपूजिताणं,देवेन्द्रपूजितेभ्यः। देवेन्द्राः शक्रादयः, तैः पूजिताः समभ्यर्चिताः, तेभ्यो नमः । आहे-ये वीतरागाः सर्वज्ञाश्च ते देवेन्द्रपूजिता एवेति नार्थोऽनेन विशेषणेन, न, मुण्डकेवलिप्रभृतीनां केषाश्चित तत्पूजितत्वानुपपत्तेः। यद्येवं देवेन्द्रपूजितेभ्य इत्येतदेवास्तु, अलं वीतरागादिग्रहणेन, न, अवीतरागादीनामपि गणधरादीनां देवेन्द्रपूजितत्वसिद्धेस्तद्वयवच्छेदार्थ वीतरागादिग्रहणमिति ।।
- एतद्विशेषणायैवाह-जहद्वितवत्थुवादीणं, यथास्थितवस्तुवादिभ्यः । यथा15 स्थितमभिलाप्यानभिलाप्यत्वादिना प्रकारेण स्थितं वस्तु वदितुं शीलाः यथास्थितवस्तुवादिनः, तेभ्यो नमः।
आह-ये वीतरागाः सर्वज्ञाः देवेन्द्रपूजिताश्च ते यथास्थितवस्तुवादिन एवेति न किञ्चिदनेन विशेषणेन, न, असदभ्युपगमव्यवच्छेदार्थत्वात् । तथाहि-अस्त्येवंविधोऽसदभ्युपगमः-किल कीतरागादयोऽपि न यथास्थितवस्तुवादिनः,
२४. वस्तु वाचामगोचरः। ] इति वचनात् । यद्येवं 'यथास्थितवस्तुवादिभ्यः' इत्येतावदेव चारु, नार्थों वीतरागादिग्रहणेन, न, साम्यतः पूर्वधरादेरपि यथास्थितवस्तुवादित्वात् १ नेहावी H.|| २ H. विना रागा-व Sमू०, रागा एव Sसं० । रागा एव A.B ॥ ३ इत्येतदेवा० H.॥ ४ ° शास्त्रार्थविचार उपचारेण H.|५ पईयाणं H.।।
६ “आत्ममात्रतारकमूकान्तकृत्केवल्यादिरूपमुण्ड केवली'त्यादि स्याद्वादमार्याम् [प्रथमकारिका25 व्याख्यायां पृ० ५८]। अतो मूका अन्तकृतश्च ये केवलिनस्ते मुण्डकेवलिपदवाच्याः"
Aटि०॥ ७ केषांचिदिंद्रपूजित० H.|| ८०रागग्रह. H.|| ९ अत्र H. मध्ये पत्रद्वयं . नास्ति । अतः ०वीत. इत्यत आरभ्य चतुस्त्रिंशदतिशयसमन्विते. [पृ० ९६.९] इत्यन्तः पाठः Hमध्ये नास्ति ।। १० ०लप्यानभिलप्य० S.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org