________________
१
5
,
प्रथमं पापप्रतिघातगुणबीजाधानसूत्रम् । पार्द्धपुद्गलपरावर्ताभ्यधिको भव इति भावनीयमेतत् । तस्माग्निबींजस्यैव क्रिया-. मात्रस्य सा प्राप्तिरिति प्रतिपत्तव्यम् । सबीजायां तु तस्यां न दीर्घदौर्गत्यम् । अंत एतदर्थस्यैवमेव तत्त्वतो भाव इति स्थितम् । अयं चातिगम्भीरो न भवाभिनन्दिभिः क्षौद्रयाधुपघातात् प्रतिपत्तुमपि शक्यते, आस्तां पुनः कर्तुमिति न सेवेषामेवैतत्प्राप्त्यादि । अतो यथोक्तदोषाभावः । इत्यलं विस्तरेण । - १, 27 १. इह चेदमादिसूत्रम्
- णमो वीतरागाणं सव्वष्णूणं देविंदपूइयाणं जहट्ठियवत्थुवाईण तेलोकगुरूणं अहंताणं भगवंताणं जे एवमाइ
खंति-इह खलु अणाइजीवे, अणादिजीवस्स भवे अणादिकम्मसंजोगणिब्बत्तिए, दुक्खरूवे, दुक्खफले, दुक्खाणुबंधे ।
णमो वीतरागाणमित्यादि । नमो वीतरागेभ्यः । तत्र रज्यतेऽनेनेति रागः, रागवेदनीयं कर्म, आत्मनः क्वचिदभिष्वङ्गपरिणामापादनात् । रञ्जनं वा रागः, रागवेदनीयकर्मापादितो भावोऽभिष्वङ्गपरिणाम एव । वीतोऽपेतो रागो येषां ते वीतरागाः, तेभ्यो नमः । एतच्च वीतद्वेष-मोहोपलक्षणम् , वीतद्वेषेभ्यो वीतमोहेभ्यः । तत्र द्विष्यतेऽनेनेति द्वेषः, द्वेषवेदनीयं कर्म, आत्मनः क्वचिदप्रीतिपरिणामीपादनात् । द्वेषणं वा द्वेषः, द्वेषवेदनीयकर्मापादितो भावोऽप्रीतिपरिणाम एव । एवं मुह्यतेऽनेनेति मोहः, मोहवेदनीयं कर्म, आत्मनः क्वचिदज्ञानपरिणामापादनात् । मोहनं वा मोहः, मोहवेदनीयकर्मापादितो भावोऽज्ञान
20
उमास्वातिप्रणीतायां श्रावक प्रज्ञप्तौ । “येषाम( मु ? )पार्धपुद्गलपरावर्त एव शेषः संसारस्तत ऊर्व सेत्स्यन्ति ते शुक्लपाक्षिकाः क्षीणप्रायसंसाराः, खलुशब्दो विशेषणार्थः, प्राप्तदर्शना वा अप्राप्तदर्शना वा सन्तीति विशेषयति । अधिके पुनरुपार्धपुद्गलपरावर्ते संसारे कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः । पुद्गलपरावर्तो नाम त्रैलोक्यगतपुद्गलानामौदारिकादिप्रकारेण ग्रहणम् । उपार्धपुद्गलपरावर्तस्तु किञ्चिन्न्यूनोऽर्धपुद्गलपरावर्त इति ।” इति आचार्यश्रीहरिभद्रसूरिविरचितायां श्रावकप्रशप्तिटीकायाम् । . १० मात्रस्यैसा(षा?) प्राप्तिरिति H.॥ २ A B विना-अत एवतस्यैव ° S. । अत एवतस्यैव ° H. । दृश्यतां पृ० २५० १॥ ३ सव्वन्नूणं K. ॥ ४ पूईयाणं K1.|| ५ अरहताणं K1.S.|| ६ निव्वत्तीए K.K1।।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org