SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १७ विरचितयोगबिन्दोः प्राचीनायां टीकायामपि ‘पञ्चसूत्रक 'नामोल्लेखो' वर्तते अत आचार्यश्रीहरिभद्रसूरिस्वीकृतं 'पञ्चसूत्रकम् ' २इति नाम अस्माभिरप्यत्राङ्गीकृतम् । ___भगवद्भिर्वाचकपुङ्गवैः श्री यशोविजयोपाध्यायैरस्यैव ग्रन्थस्य 'पञ्चसूत्री 'नाम्नोल्लेखो विहितोऽस्ति धर्मपरीक्षायाः स्वोपज्ञवृत्तौ ।। तत्त्वतः समारस्यासारत्वाद् दुःखरूपत्वाच्च, संसारान्मुक्त्यर्थ किं किं कर्तव्यं सिद्धावस्थायाश्च कीदृशं स्वरूपमित्येतद्वर्णनपरोऽतीव मनोहरोऽयमाध्यात्मिको ग्रन्थः । अस्य पञ्चस्वपि सूत्रेषु तत्तदधिकृतविषयस्य यादृशं वर्णनमुपलभ्यतेऽत्र तादृशमन्यत्र दुष्प्रापमिति जैनसचे महती ख्यातिरस्य ग्रन्थस्य वर्तते । विघ्नविधाताय श्रेयोधिगमार्थ च मङ्गलरूपमेनं ग्रन्थं (विशेषतः प्रथमसूत्रम् ) परःसहस्राः साधु-साध्वी-श्रावक-श्राविकाः महता भक्तिभावेन प्रतिदिनं पठन्ति । अस्मिन् ग्रन्थे पञ्च सूत्राणि--- १ पापप्रतिघातगुणबीजाधानसूत्रम् , २ साधुधर्मपरिभावनासूत्रम् , ३ प्रव्रज्याग्रहणविधिसूत्रम् , ४ प्रत्रज्यापरिपालनासूत्रम् , ५ प्रवज्याफलसूत्रम् । पापप्रतिघातः कथं करणीयो गुण बीजाधानं च कथं कर्तव्यमित्येतद् वर्णितं प्रथमसूत्रे विस्तरेण । गुणबीजाधाने सति धर्मगुणप्रतिस्त्यभिलाषे सञ्जाते धर्मगुणानां परम कल्याणकरत्वादि विभाव्य धर्मगुणान् यथाशक्ति प्रतिपद्य तत्यालनं परमेण आदरेण विधेयम् । तत्र किं किं कर्तव्यं किं किं च चिन्तनीयमित्येतद महता विस्तरेण वर्णितं द्वितीयसूत्रे । तथा च कुर्वतः स्वयमेव साधुधर्माभिलाषो जायते इति साधुधर्मपरिभावना. सूत्रमिदम् । ___ साधुधर्मे परिभाविते साधुधर्मः कथं ग्रहीतव्यः, कीदृशाश्च गुणाः साधुधर्मग्रहीतरि अघश्यमपेक्ष्यन्ते इत्यादि विस्तरेण वर्णितं तृतीये प्रवज्याग्रहणविधिसूत्रे । ___प्रव्रज्यां गृहीत्वा भावतः कथं प्रव्रज्या परिपालनीया इति चतुर्थे सूत्रे महता विस्तरेणातिसम्यग् वर्णितमिति चतुर्थ प्रव्रज्यापरिपालनासूत्रम् । प्रव्रज्यायाः सम्यक् परिपालनस्य फलं संसारान्मोक्षमासाद्य सिद्धपदप्राप्तिः । अतः पञ्चमे प्रव्रज्याफलसूत्रे सिद्धावस्थाया विस्तरेण वर्णनमस्ति । तत्र च सांख्य-बौद्धमतं निरस्प जैनदर्शनाभिमत सिद्धस्वरूपं वर्णितमस्ति । एवं क्रमशो व्यवस्थितरूपेण आत्मोन्नतिपथप्रदर्शकोऽयं ग्रन्थः । __ रचयितारः अस्य हस्तलिखितेषु प्राचीनतमेषु अर्वाचीनेषु च KI, K, S, H, A, B इति षट्स्वप्यादर्शषु कुत्रापि ग्रन्थकर्तुर्नामनिर्देशो नास्ति । वैक्रमे सप्तदशे शतके लिखिते केवलं C. D. इत्यत्र 'कृतं चिरन्तना. १. दृश्यतामस्य पञ्चसूत्रकस्य पञ्चमे परिशिष्टे पृ० ११२ ॥ २. दृश्यतामस्मिन् पञ्चसूत्रके पृ० ८. टि० ५। अत्र आचार्य श्रीहरिभद्रसूरिभिः स्वरचितपश्चवस्तुकप्रकरणस्वोपज्ञवृत्ती 'पञ्चवस्तुक'शब्दव्युत्पत्तिर्यादृश्यभिहिता तादृश्येव 'पञ्चसुत्रक'शब्दव्युत्पत्तितिच्या ।। ३. दृश्यतामस्मिन् पञ्चसूत्रके पृ० १८ दि. ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy