SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ॥ श्री शङ्केश्वरपार्श्वनाथाय नमः ॥ ॥ श्री महावीरस्वामिने नमः ।। ॥ श्री गौतमस्वामिने नमः ॥ आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मेभ्यो नमः । आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः । सदगुरुदेवमुनिराजश्रीभुवनविजयजीपादप भ्यो नमः । पुरोवचनम् परमकृपालोः परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भुवनविजयजीतातपादानां च कृपया प्राचीनतमविविधहस्तलिखितादर्शादिसामग्रीमवलम्ब्य संशोधित सम्पादितं च याकिनीमहत्तराधर्मसूत्वाचार्यभगवच्छीहरिभद्रसूरिविरचितटीकासमलकृतं चिरन्तनाचार्यविरचितं पश्चसूत्र तत्त्वरसिकानां विदुषां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । पश्चसुत्रकाख्योऽयं ग्रन्थः प्राकृतभाषायां गद्यरूपेण विद्यते । ३२ अक्षरैरेकः श्लोक इति गणनया, 'वृहट्टिप्पनिकाभिधप्राचीनलेखानुसारेण २१० श्लोकमानोऽयं ग्रन्थः । अस्योपरि आचार्यश्रीहरिभद्रसूरिभिः संस्कृतभाषायां विरचिता ८८० श्लोकमाना टीका वर्तते । ग्रन्थनाम अस्मिन ग्रन्थे पच सूत्राणि सन्तीति पश्चसूत्रम्' इति सान्वर्थनाम्नवास्य ग्रन्थस्य जगति प्रसिद्धिः, तथाप्यत्र किञ्चिद विचार्यते । - सटीकस्यास्य ग्रन्थस्य संशोधने K1, K, S, H, A, B, C, D २इत्यष्टौ हस्तलिखिता आदर्शा अस्माभिरुपयुक्ताः। एतेषु K1, K इत्यादर्शद्वयं खम्भातनगरस्थश्रीशान्तिनाथतालपत्रीयग्रन्थभाण्डागारसत्कम् , अपरे षड् आदर्शाः पत्तन(पाटण)नगरस्थश्रीहेमचन्द्राचार्यजनज्ञानमन्दिरसत्काः । K1. K. S. H इत्यादर्शचतुष्टयं तालपत्रात्मकम् , A, B, C, D इत्यादर्शचतुष्टयं कागदपत्रात्मकम् । K1, K, C, D मध्ये पञ्चसूत्रक मूलमात्र वर्तते । S मध्ये १-३२ पत्रेषु केवलं पञ्चसूत्रकं वर्तते, ३३१६१ पत्रेषु तु आचार्यश्रीहरिभद्रसूरिविरचिता टीका केवला वर्तते । A-B मध्येऽपि पञ्चसूत्रकटीकैव वर्तते । H मध्ये प्रथमसूत्रस्यैव केवला टीका वतेते। अत्र K1 मध्ये 'पंचसूत्रं समत्त' इति ग्रन्थान्ते उल्लेए K मध्ये 'समत्तं पंचसूत्रं' इत्युल्लेखो दृश्यते, 'पञ्चसूत्रम्' इति नाम्नैव च लोकेऽपि प्रसिद्धिः । तथापि आचार्यश्रीहरिभद्रसूरिभिरस्य ग्रन्थस्य सर्वत्र (पृ० १, २४, ४४, ६५, ८०, ८१) 'पञ्चसूत्रक'. नाम्नैव निर्देशो विहितः, C-D मध्येऽपि 'समाप्तं पंचसूत्रकं' 3 इत्युल्लेखो दृश्यते, आचार्य श्रीहरिभद्रसूरि १. बहट्टिप्पनिका वैक्रमे पञ्चदशे शतके लिखितेति विदुषामभिप्रायः । २. एतेषामादर्शानां संक्षिप्तः परिचयोऽस्य ग्रन्थस्य पृ० १-२ मध्ये टिप्पणे द्रष्टव्यः ॥ ३. एते उल्लेखा अस्य ग्रन्थस्य पृ० ७९ मध्ये टिप्पणे द्रष्टव्याः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy