________________
चार्विवृतं च जाकिनीमहत्तरासनुश्रीहरिभद्राचार्यैः' इत्युल्लेखो दृश्यते । यद्यपि C.-D. मध्ये केवलं मूलं वर्तते, न तु वृत्तिः, अतो वृत्तिकारस्य हरिभद्रसूरेस्तत्र निर्देशो विचित्र इव भाति, तथापि एतदुल्लेखानुसारेण चिरन्तनाचार्यविरचितत्वेनास्य सर्वत्र प्रसिद्धिः, अत एव वयमपि चिरन्तनाचार्यविरचितमिति व्यपदिशामः२ । साधक-बाधकप्रमाणाभावात् 'पञ्चसूत्रकविरचयितृणां कः समयः' इति निश्चेतुं वयं न शक्नुमः ।
टीकाकारास्तु याकिनीमहत्तरासूनव आचार्यश्रीहरिभद्रसूरय इति टीकान्ते स्पष्टमेवोदितम्'पञ्चसूत्रकटीका समाप्ता । कृतिः सिताम्बराचार्यहरिभद्रस्य धर्मतो याकिनीमहत्त।सूनोः।" [पृ० ८१]
एतेषां टीकाकृतां समयविषये विविधा विप्रतिपत्तयो वर्तन्ते ----वैक्रमे षष्ठे शतके इति केचित् , केचित्त सप्तमे इति । एतच्च क्वचिदन्यत्र विचारयिष्यते ।
संशोधनप्रारम्भे बीजं फलं च पत्तनाभिजनानां 'श्रेष्ठि श्री भोगीलाल लहेरचंद' इत्याख्यानां स्वपितृचरणानां पुण्यार्थ 'प्रतापभाई तथा 'महेशभाई' इत्याख्याभ्यां तत्सुपुत्राभ्यां पत्तननगरे ‘भोगीलाल-लहेरचंद-भारतीयसंस्कृतिसंस्थानम्' इत्याख्या संस्था संस्थापिता। तत्र च संशोधिता ग्रन्थाः प्रकाशनी या इत्यपि निर्धारितम् । तैः प्रार्थितेन मया 'संस्थानमिदम् आचार्यश्री हरिभद्रसूरिविरचितगन्थमालां सम्यक् संशोध्य सम्पाद्य च प्रकाशयेदिति मे महती अभिलाषा' इति तेभ्य आवेदितम् । तैरपि स्वीकृतं तत् । तदनुसारेण आचार्यश्रीहरिभद्रसूरिविरचितग्रन्थमालायाः प्रथमपुष्परूपेण अस्य पञ्चसूत्रकस्य संशोधनं मया स्वीकृतम् ।
विक्रमसंवत २०३९ तमे वर्षे यदा मांडलनगरेऽस्माकं चातुर्मासिकमवस्थानमासीत् तदाऽस्य सटीकस्य पश्चसूत्रकस्य संशोधनं समारब्धम् ।
पत्तननगरे भोगीलाल-लहेरचंद-संस्कृतिसंस्थानसंचालितायां संस्कृतपाठशालायामध्यापकाः पण्डितचन्द्रकान्तमहोदयाः पत्तनतः S.H. प्रती गृहीत्वा मांडलनगरमायाताः। S.H. प्रत्योर्विद्यमानाः पञ्चसूत्रकस्य टीकायाश्च पाठभेदास्तैस्तत्र संगृहीताः। ततः परं बहवो मासा व्यतीताः। विक्रमसंवत २०४० तमे वर्षे लोलाडापामेऽस्माकं चातुर्मासिकमवस्थानमभूत् । तत्राश्विनमासेऽस्य ग्रन्थस्य संशोधनं सम्यगवहितचित्तेन समारखधम । तथापि मम प्रथमान्तेवासिनो वयोवृद्धस्य मुनिराजश्री देवभद्रविजयस्य शारीरिकास्वास्थ्यादिना संशोधनकार्य विलम्बितम् । देवतुल्या मुनिराजश्री देवभद्रविजयाः विक्रमसंवत् २०४१ तमे वर्षे कार्तिकशद्वितीयायां (ता. ६-११-८३ रविवासरे) दिवं गता इति मम अत्यन्तं खिन्नचित्तत्वात् पुनरपि भूयान् विलम्बोऽस्मिन संशोधनकायें संजातः । ततः परं महता परिश्रमेण खम्भातनगरस्थौ KI, K आदशौं सम्प्राप्य अध्यावपि हस्तलिखितादर्शान सम्यगुपयुज्य पाठभेदादिभिः पञ्चभिः परिशिष्टैश्च परिष्कृत्य विदषां करकमले ग्रन्थोऽयमुपनिधीयते भगवतः श्री शङ्केश्वरपार्श्वनाथस्य पितृचरणानां गुरुदेवानां च प्रसादात् । १ दृश्यतां पृ० ७९ टि०२॥ २ आचार्य श्री हरिभद्रसूरिविरचितटीकायां कुत्रापि मूलग्रन्थकर्तुर्नामोल्लेखाद्यदर्शनात् 'हरिभद्रसूरय एव मूलस्य टीकायाश्च विरचयितारः स्युः' इत्यपि केचित् सम्भावयन्ति । एतच्च गुर्जरभाषात्मिकायां प्रस्तावनायां प्रपञ्चितमस्माभिः। जिज्ञासुभिस्तत्र विलोकनीयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org