SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रव्रज्याफलसूत्रम् । भव्योच्छेदप्रसङ्ग इति विभ्रमनिरासार्थमाह-अव्यवच्छेदो भव्यानामनन्तभावेन तथा सिद्धिगमनादावपि । वनस्पत्यादिषु काय स्थितिक्षयदर्शनादनन्तस्याऽपि राशेः क्षयोपपत्तेः पुनः संशय इति तद्वयवच्छित्यर्थमाह - एतदनन्तानन्तकम् । एतद् भव्यानन्त क्रमनन्तानन्तकम्, न युक्तानन्तकादि, समया अत्र ज्ञातम्, तेषां प्रतिक्षणमतिक्रमेऽनुच्छेदोऽनन्तत्वात् । कथं तर्हि एतदुच्यते ऋतुर्व्यतीतः परिवर्त्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु संनिवर्त्तते, जलं नदीनां च नृणां च जीवितम् ॥ [ ] इति । उच्यत एतद्, व्यवहारतस्तूच्यते, अन्यथा तस्यैव परावृत्तौ बाल्याद्यनिवृत्तिः, तस्य तद्वाल्याद्यापादनस्वभावत्वादिति परिभावनीयम् । अतो न क्षयो भव्यानामिति स्थितम् । एवं च सति भव्यत्वं योग्यतामात्रमेव सिद्धिं प्रति hषाञ्चित्प्राणिनां ये न कदाचिदपि सेत्स्यन्ति । तथा चागमः भव्वा वि न सिज्झसंति केई [ ] इत्यादि । भव्यत्वं सिद्धिगमनयोग्यत्वम् । फलगम्या च योग्यता । को वा एवम भव्येभ्यो विशेषो भव्यानाम् ? इत्याशङ्काव्यपोहायाह - प्रतिमायोग्यदारुनिदर्शनेन, तथाहि - तुल्यायां मैति[मा]sनिष्पत्तौ तथाप्येकं दारु प्रतिमायोग्यं ग्रन्थयादिशुन्यतया न तदन्यत् तयुक्तयेत्या विद्वदङ्गनादिसिद्धमेतत् । न चात्रापि तत्तस्वभावत्वादिविकल्पचित्ता कार्या । कुतः ? इत्याह-व्यवहारमतमेतत्, अयं चैवं व्यवस्थित इति भावितमेव । न चायं संवृतिरूप इत्याह-एषोऽपि तत्त्वाङ्गम्, १. “ से किं तं अनंतए ? अनंतर तिविहे पण्णत्ते, तंजहा - परित्ताणंतर जुत्ताणंतर अणंताणंतए । से किं तं परित्ताणंतए ? परित्ताणंतर तिविहे पण्णत्ते, तं जहा- जहण्णए, उक्कोसए, अजहण्णमणुक्कोस ए । से किं तं जुत्ताणंतए ? जुत्ताणंतर तिविहे पण्णत्ते, तंजहा जहणए, उक्कोसए, अजहणमणुकोसए । से किं तं अनंतानंतर ? अनंताणंतए दुविहे पण्णत्ते, तं जहा जहण्णए, अजहण्णमणुकोसए । ” इति अनुयोगद्वारसूत्रे सू० १४६ || “सिद्धा निगोअजीवा वणस्स काल पुग्गला चेव । सव्वमलोगनहं पुण तिवग्गिउं केवलदुगमि ||४||८५ ||" इति चतुर्थे कर्मग्रन्थे । दृश्यतां षट्खण्डागमधवलाटीका १, २, २-३ खण्ड १, भाग २, पृ० १०-३१ ।। २ बालाद्य • S. ।। ३ के इत्यादि S A० ॥ ४ प्रतिनिष्पत्तौ S A० । प्रतिनिष्पत्तौ Ato B. ॥ ५ संवृत्ति इति हस्तलिखितादर्शेषु पाठः । " पररूपं स्वरूपेण यया संवियते धिया । एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ॥ ६८ ।। तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् । Jain Education International For Private & Personal Use Only 5 10 15 20 25 30 www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy