________________
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलते पञ्चसूत्रके सिद्धिओ निच्छयंगभावेण । परिसुद्धो उ केवलं। एसा आणा इह भगवओ समंतभद्दा तिकोडिपरिसुद्धीए अपुणबंधगाइगम्मा।
अपर्यवसितमेवमुक्तेन विधिना सिद्धसौख्यम् । अत एव कारणादुत्तममिदम् । एतदेव स्पष्टमभिधातुमाह-सर्वथाऽनुत्सुकत्वे सति अनन्तभावात् कारणात् । क्व निवास एषाम् ? इत्याह-लोकान्तसिद्धिवासिन एते। चतुर्दशरज्ज्वात्मकलोकान्ते या सिद्धिः प्रशस्तक्षेत्ररूपा तद्वासिन एते सिद्धाः । कथं व्यवस्थिताः ? इत्याह-यत्रैकः सिद्धस्तत्र क्षेत्रे नियमानियोगेनानन्ताः सिद्धाः । उक्तं च
जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का।
अण्णोण्णमणाबाहं, चिठ्ठति सुही सुहं पत्ता ॥ [ आव० नि० ९७५ ] कथमिह कर्मक्षये लोकान्तगमनम् ? इत्याह -अकर्मणः सिद्धस्य गतिरितो लोकान्तं पूर्वप्रयोगेण हेतुना तत्स्वाभाव्यात् । कथमेतदेवं प्रतिपत्तव्यम् ? इत्याह -अलाबुप्रभृतिज्ञाततः, अष्टमृल्लेपलिप्तजलक्षिप्ताधोनिमग्नतदपगमोर्ध्वगमनस्वभावालाबुवत् । प्रभृतिग्रहणादेरण्डफलादिग्रहः। ऊर्ध्वगमनं तत्रैव वाऽसकृद्गमनागमनं कि न? इत्येतदाशङ्कयाह-नियमोऽत एव अलाबुप्रभृतिज्ञाततः एकसमयादिः । उत्पलपत्रशतव्यतिभेदृष्टान्तेन एकसमये न तद्गतियुक्तेत्याशङ्कापोहायाह-अस्पृशदगत्या गमनं सिद्धस्य सिद्धिक्षेत्र प्रति, स्पृशद्गतिमदपेक्षया चोत्पलपत्रशतव्यतिभेददृष्टान्तः । कथमियं संभवति ? इत्याह-उत्कर्षविशेषत इयम् , गत्युत्कर्षविशेषदर्शनादेवमस्टेशद्गतिः संभवतीति भावनीयम् । सिद्धस्यापुनरागमनात् , कालस्य चानादित्वात् , षण्मासान्तः प्रायोऽनेकसिद्धे
१ "मृल्लेपसङ्गनिक्षिाद् यथा दृष्टाऽस्वलावुनः । कर्मसङ्गविनिर्मोक्षात् तथा सिद्धिगतिः स्मृता ।।११॥ मृल्लेपेत्यादि । अलाबुनोऽप्सु उन्मजनं दृष्टं मृल्लेपसङ्गनिर्मोक्षात् एवं कर्माष्टकसङ्गत्यागात् सिद्धगतिः सिद्धा ॥११॥ एरण्डयन्त्रपेडासु बन्धच्छेदाद यथा गतिः। कर्मबन्धनविच्छेदात सिद्धस्यापि तथेष्यते ॥१२॥ एरण्डेत्यादि । व्याघ्रपादबीजबन्धनच्छेदाद् यन्त्रबन्धनच्छेदात् पेडावन्धनच्छेदाच्च गतिर्दृष्टा मिजा-काष्ठ-पेडापुटानामेवं कर्मबन्धनविच्छेदात् सिद्धस्य गतिः ।" इति तत्वार्थभाष्यस्य अन्त्यकारिकाणां सिद्धसेनगणिविरचितायां वृत्तौ ॥२ चासकृद S. विना ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org