________________
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके किश्चित् , कथं तत्र प्रमाणवृत्तिरिति । तदेवं व्यवस्थिते सति परिणामभेदादात्मन इति प्रक्रमः, बन्धादिभेदो बन्ध-मोक्षभेद इत्येतत् साधु प्रमाणोपपन्नम्, न खल्वन्ययोग-वियोगौ विहाय मुख्यः परिणामभेदः, भवाच मुक्तिरनादिमांश्च भव इति नीत्या, अत एवाह-सर्वनयविशुद्धया अनन्तरोदितं साधु, फलोपदर्शनायाह-निरुपचरितोभयभावेन, प्रक्रमात् मुख्यवन्ध-मोक्षभावेन । एवं द्रव्यास्तिकमतमधिकृत्य कृता निरूपणा । पर्यायास्तिकमतमधिकृत्याह
ण अप्पभूयं कम्मं । ण परिकप्पियमेयं । ण एवं भवादिभेदो । ण भवाभावो उ सिद्धी। ण तदुच्छेदे अणुप्पाओ । ण एवं समंजसत्तं । णाणादिमं भवो। ण हेउफलभावो । तस्स तहासहावकप्पणमजुत्तं, णिराहारनयत्तओ णिओगेणं। तस्सेव तहाभावे जुत्तमेयं । सुहममट्ठपयं । विचिंतियव्वं महापण्णाए ति।
नात्मभूतं कर्म, न बोधस्वलक्षणमेवेत्यर्थः। तथा न परिकल्पितमसदेवैतत् कर्म वासनादिरूपम् । कुतः ? इत्याह-नैवं भवादिभेदः । आत्मभूते परिकल्पिते वा कर्मणि बोधमात्राविशेषेण क्षणभेदेऽपि मुक्तक्षणभेदवन्न भवाऽपवर्गविशेषः।
तथा न भवाभाव एव सिद्धिः सन्तानोच्छेदरूपा प्रध्यातप्रदीपोपमा । अत्र युक्तिमाह-न तदुच्छेदेऽनुत्पादः, न सन्तानोच्छे देऽनुत्पादस्तस्यैव, किं तर्हि ? उत्पाद एव, यथाऽसौ सन्नुच्छिद्यते, एवमसन्नप्युत्पद्यतामिति को विरोधः? यद्येवं ततः किम् ? इत्याह-नैवं समञ्जसत्वं न्यायोपपन्नत्वम् । कथम् ? इत्याह-एवं हि नानादिमान् भवः संसारः, कदाचिदेव सन्तानोत्पत्तेः । तथा न हेतुफलभावः, चरमा-ऽऽद्यक्षणयोरकारण-कार्यत्वात् । पक्षान्तरनिरासायाह
१ • रोदित साधु फलो° S. Aमू० विना ॥ २ ° मंत भवो S. C. D. || ३ नयत्तओ नएण K.। °न्नयकओ णिओगेणं Sसं. C. D. || ४ ०पयमेयं विधि C. D. I यद्यपि टीकानुसारेणात्र C. D. पाठः साधुतरो भाति, तथापि सर्वेषु त्रिष्वपि प्रावीनतालपत्रादर्शेषु विद्यमानत्वात् पयं विचिं° इति पाठोऽत्रास्माभिरादृतः ॥
15
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org