________________
5
10
15
20
25
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके
व्ययवहारमतं त्वन्यथा, सत्यपि तस्मिन्निदं तत्संयोगशक्तिक्षयात् सूपपन्नमेव । अभ्युच्चयमाह - वियोगवांश्च योग इति कृत्वा नैष योगः सिद्धाकाशयोरिति भिन्नं लक्षणमेतस्याधिकृतयोगस्य । न चात्रापेक्षा सिद्धस्य । कथं लोकान्ताकाशगमनम् ? इत्याह- स्वभाव एवैष तस्य अनन्तसुखस्वभावकल्पः कर्मक्षयव्यङ्ग्यः कीदृशमस्यानन्तं सुखम् ? इत्याह- उपमात्र न विद्यते सिद्धमुखे । यथोक्तम् —
स्वयं वेद्यं हि तद् ब्रह्म कुमारी स्त्रीसुखं यथा । अयोगी न विजानाति, सम्यग् जात्यन्धवद् घटम्” ॥ [
]
अत एशह-तद्भावे सिद्धसुखभावे अनुभवः परं तस्यैव । एतदपि कथं ज्ञायते ? इत्याह- आज्ञा एषा जिनानां वचनमित्यर्थः । किंविशिष्टानाम् ? इत्याह- सर्वज्ञानाम् । अत एव अवितथा एकान्ततः सत्येत्यर्थः । कुत: ? इत्याह-न वितथत्वे निमित्तं रागाद्यभावात् । उक्तं च
रागाद्वा द्वेषाद्वा मोहाडा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं नास्ति ॥ [
1
न चानिमित्तं कार्यमित्यपि । तथा जिनाज्ञा । एवं स्वसंवेद्यं सिद्धसुखमित्यप्तवादः ।
१
निदंसणमेतं तु नवरं - सव्वसत्तुक्खए सव्ववाहिविगमे सव्व त्थसंजोगेणं सव्वच्छासंपत्तीए जारिसमेयं एत्तोऽणंतगुणं खुतं, भावसत्तुक्खयादितो । रागादयो भावसत्तू, कम्मोदया वाहिणो, परमलद्धीओ उ अत्था, अणिच्छेच्छा इच्छा । एवं सुहुममेयं, न तत्तओ इयरेण गम्मइ । जइसुहमिवाजइणा । आरुग्गसुहं व रोगिण ति विभासा ।
२ ३
Jain Education International
१ मुत्तं भाव० K. । तं तु भाव० S.C.D. ।। २ उ नास्ति K. ।। ३ अट्ठा K. विना ॥ ४ सुहम० K1 ।। ५०सुहं वाजइणा S. । ०सुहं व अजइणा AB | ६ आरोग० S.K. ।
For Private & Personal Use Only
www.jainelibrary.org