________________
पञ्चमं प्रव्रज्याफलसूत्रम् ।
5
तस्सेव । आणा एसा जिगाणं सव्वण्णूणं अवितहा एगंतओ । न वितहत्ते निमित्तं । न चानिमित्तं कज्जं ति ।
से न सद्दे इत्यादि । स सिद्धः न शब्दो न रूपं न गन्धो न रसो न स्पर्शः, पुद्गलधर्मवादमीषाम् । अभावस्तीत्येतदपि नेत्याह-अरूपिणी सत्ता ज्ञानवत् । अनित्थंस्थसंस्थाना, इदंप्रकारमापन्नमित्थम् , इत्थं स्थितमित्थंस्थम् , न इत्थंस्थम् अनित्थंस्थं संस्थानं यस्या अरूपिण्याः सत्तायाः सा यथोक्ता । अनन्तवीर्या इयं सत्ता प्रकृत्यैव । तथा कृतकृत्या तन्निष्पादनेन निवृत्ततच्छक्तिः, सर्वाबाधाविवर्जिता द्रव्यतो भावतश्च । सर्वथा निरपेक्षा, तच्छक्त्यपगमेन । अत एव स्तिमिता प्रशान्ता सुखप्रकर्षादनुकूला निस्तरङ्गमहोदधिकल्पा । एतस्या एव परमसुखत्वमभिधातुमाह-असायोगिक एष 10 आनन्दः सुखविशेषः । अत एव निरपेक्षत्वात् परो मतः प्रधान इष्टः।
इहैव व्यतिरेकमाह-अपेक्षाऽनानन्दः, औत्सुक्यदुःखत्वात् । अपेक्ष्यमाणाप्त्या तन्निवृत्तौ दोषमाह-संयोगो वियोगकारणम् , तदवसानतया स्वभाव-... त्वात् । अफलं फलमेतस्मात् संयोगात् । किम् ? इत्यत आह-विनिपातपरमेव तत् सांयोगिकफलम् । कथमिदं बहुमतम् ? इत्याह-बहुमतं मोहादबुधानां 20 पृथग्जनानाम् । तत्रापि निबन्धनमाह-यदतो विपर्ययः, मोहादत एवाफले फलबुद्धिः। ततो विपर्ययादनाः असत्प्रवृत्त्या अपर्यवसिताः, सानुबन्धतया । एवमेष भावरिपुः परी मोहः अत एवोक्तो भगवता तीर्थकरेण । यथोक्तम्
अण्णाणतो रिपू अण्णो, पाणिणं णेव विज्जइ। एत्तोऽसक्किरिया तीए, अणत्था विस्सतोमुहा ॥ [ ] 25 यदि संयोगो दुष्टः कथं सिद्धस्याकाशेन न स दुष्टः ? इत्याशङ्कयाहनाकाशेन सह योग एतस्य सिद्धस्य । किम् ? इत्यत आह-स स्वरूप. संस्थितः सिद्धः। कथमाधारमन्तरेण स्थितिः ? इत्याशङ्कयाह-नाकाशमन्यत्राधारे । अत्रैव युक्तिः-न सत्ता सदन्तरमुपैति, न चाऽन्यथाऽन्यदन्यत्र । अचिन्त्यमेतत प्रस्तुतं केवलिगम्यं तत्त्वम् । तथा निश्चयमतमेतत् , 30
१ तस्सेव नास्ति S.K.K1 ॥ २ अफल फलमेतस्मात् ॥ ३ अज्ञानतो रिपरन्यः प्राणिनां नैव विद्यते । अतोऽसस्क्रिया तया अनर्था विश्वतोमुखाः ।।
Jain Education International
For Private' & Personal Use Only
www.jainelibrary.org