________________
॥ एवं सामाथि
वलाश्रयम् ॥२
उभाषसंज्ञानयोगमे
चतुर्थं प्रव्रज्यापरिपालनासूत्रम् । चिन्तयता तेन निबद्धं कर्म सूरिणा । ज्ञानावरणमत्युग्रमज्ञानादिनिमित्ततः ॥८॥ नालोचितं च तत्तेन ततो मृत्वा दिवं गतः । ततोऽप्यसौ च्युत: क्वापि सत्कुले जन्म लब्धवान् ॥९॥ कालेन साधुसम्पर्काद् बुद्धोऽसौ जिनशासने । सदगुरूणां समीपेऽथ प्रवव्राज विरागतः ॥१०॥ ततोऽसौ सूरिपादान्तेऽधीते सामायिकश्रुतम् । उदीर्ण च तकत् तस्य कर्म जन्मान्तरार्जितम् ॥११|| तस्योदयाद् न शक्नोति ग्रहीतुं पदमध्यसौ । प्रपठन्नप्यविश्रामं बहुमानयुतोऽपि सन् ॥१२॥ ततः सूरिर- 5 शक्तं तं पाठे ज्ञात्वा तपोधनम् । सामायिकश्रुतस्यार्थ तं संक्षेपादपीपठत् ॥१३॥ यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः। घोषयामास तत्रापि विस्मृतिस्तस्य जायते ॥१४|| ततो महाप्रयत्नेम संस्मृत्य किल किञ्चन । तत्रासौ घोषयामास तुष्टो मासतुषेत्यलम् ॥१५॥ ततस्तद्घोषणान्नित्यं मानुषेत्यभिख्यया । ख्याति नीतो महात्मासौ बालिशः क्रीडनापरैः ॥१६॥ अदोऽपि विस्मरत्येष यदा मोहात्तदा तकम् । शून्यचित्तमवाचं च हसन्तो बालका जगुः ॥१७॥ अहो माषतुषः साधुरेष ___10 मौनेन तिष्ठति । एवमुक्तः स तैर्मेने साधु भो स्मारितं मम ॥१८॥ ततोऽधीते तदेवासौ मन्यमानोऽत्यनुग्रहम् । साधवस्तु तथा श्रुत्वा वारयन्ति स्म सादराः ॥१९॥ शिक्षयन्ति स्म तं साधो मा रुष्येत्या दि घोषय । अतः प्रमोदमापन्नो घोषयामास तत्तथा ॥२०॥ एवं सामायिकाद्यर्थेऽप्यशक्तो गुरुभक्तितः । ज्ञानकार्यमसी लेभे कालतः केवलश्रियम् ॥२१॥१९३।।
अथामुमेव शुभौघसंज्ञानयोगमेषां भावयन्नाह---- रुद्दो खलु संसारो सुद्धो धम्मो तु ओसहमिमस्स ।
गुरुकुलसंवासे सो निच्छयओ णायमेतेणं ॥१९४।।
रौद्रो विषविकारादिवद्दारुणः, खलुरवधारणे, संसारो नरनारकादिभ्रमणरूपः सर्वशरीरसाधारणः पारमार्थिकच्याधिस्वभावतामापन्नो यतः, ततः शुद्धो धर्म एव पञ्चनमस्कारस्मरणादिरूप औषधं निवृत्तिहेतुरस्य संसारस्य । यथोक्तम् -"पंचनमोकारो खलु विहिदाणं सत्तिओ अहिंसा य । इंदियकसायविजओ एसो धम्मो सुहपओगो ॥१॥" एवमवाते यदेष पुननिर्णीतवान् तदाह --गुरुकुलसंवासे गुरोरुक्तलक्षणस्य कुलं परिवारस्तत्र सम्यक् तद्गतमर्यादया वासे सति स शुद्धो धर्मो निश्चयतः परमार्थवृत्त्या सम्पद्यते । अनिश्चयरूपस्तु कृत्रिमसुवर्णसदृशः परीक्षामक्षममाणोऽन्यथापि स्यात् । न च तेन किञ्चित् , संसारफल-वेनासारत्वादिति ज्ञातमेतेन माषतुषादिना साधुजडेनापि सता ॥१९४||
कुत एतदेवमिति चेदुच्यते--
जं कुणति एवमेवं तस्साणं सव्वहा अलंघतो । ___एगागिमोयणम्मिवि तदखंडण मो इहं णायं ॥१९५॥
यद्यस्मात् कुरुते एवं निश्चयतः, एवं गुरुकुलसंवासं माषतुषादिः । कीदृश इत्याह-तस्य गुरोराज्ञाभिच्छा-मिथ्याकारादिपरिपालनरूपां सर्वथा मनसा वाचा कायेन च अलंघयन्ननतिक्रामन् । 30 नन्वेकाकिनस्तस्य किमित्याह-एकाकिमोचनेऽपि कुतोऽप्यशिवादिपर्यायादेकाकिनोऽपरसाधुसाहाय्यरहितस्य क्वचिद् ग्रामनगरादौ गुरुणा स्थापने सत्यपि तदखण्डना गुर्वाज्ञानुल्लंघना वर्तते 'मो' इति प्राग्वत् । अयमत्राभिप्रायः-बहुसाधुमध्ये लज्जाभयादिभिरपि भवत्येव गुर्वाज्ञानुल्लंघनम् । यदा त्वतौ एकाकितया मुक्तोऽपि गुरुकुलवासप्रवृत्तां समाचारी सर्वामनुवर्तते, तदा ज्ञायते निश्चयतो गरुकुलसंवासवानसौ, तत्सा पस्य क्रियाकलापस्य सर्वथाऽखण्डनात , इह गुर्वाज्ञानुल्लंघने ज्ञातं दृष्टान्तो ज्ञेयम् ॥१९५॥" ___ इति आचार्यश्री हरिभद्रसूरिविरचिते मुनिचन्द्र पूरिविरचितवृत्तिसहिते उपदेशपदे ।
20
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org