________________
५८
10
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलकृते पञ्चसूत्रके कारणत्वेन मोक्षं प्रत्यप्रतिबद्धसामर्थ्य हेतुत्वेन । एतदेवाह-अतः परमगुरुसंयोगः, अतो गुरुबहुमानात्तीर्थकरसंयोगः। ततः संयोगादुचिततत्संबन्धस्वात् सिद्धिरसंशयं मुक्तिरेकान्तेन, यतश्चैवमतः एषोऽत्र शुभोदयो गुरुबहुमानः, कारणे कार्योपचारात् , यथाऽऽयुघृतमिति । अयमेव विशेष्यतेप्रकृष्टतदनुबन्धः प्रधानशुभोदयानुबन्धः, तथा तथाराधनोत्कर्षेण । तथा भवव्याधिचिकित्सकः गुरुबहुमान एव, हेतुफलभावात् । न इतः सुन्दरं परं गुरुबहुमानात् । उपमात्र न विद्यते गुरुबहुमाने, सुन्दरत्वेन भगवद्वहुमानादित्यभिप्रायः । स एवंप्रज्ञः, स तावदधिकृतप्रवजितः, एवंप्रज्ञो विमलविवेकात । एवंभावः, विवेकाभावेऽपि प्रकृत्या । एवंपरिणामः सामान्येन गुर्वभावेऽपि क्षयोपशमान्माषतुषवत् । यथोक्तम्
विवेक शुभभाव-परिणामा वचन-गुरु-तदभावेषु यमिनाम् [ ] इति । १ "नन्वविज्ञातसुवचनविनियोगानामपि केषांचिच्छास्त्रे चारित्ररूपः शुभपरिणामः श्रयते, स कथं तेषाम् ? इत्याशंकयाह
मासतुसादीयाण उ मग्गणुसारित्तो सुहो चेव ।
परिणामो विन्नेओ सुहोहसण्णाणजोगाओ ॥१९३॥ माषतुषादिकानां स्वागमप्रसिद्धानां जडसाधूनां पुनर्जीवाजीवादितत्त्वगोचरव्यक्तश्रतोपयोगाभावेऽपि मार्गानुसारित्वतस्तीव्रमिथ्यात्वमोहनीयक्षयोपशमभावात् , इह च मार्गश्चनसोऽवक्रगमनं भुजङ्गगमननलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही जीवपरिणति विशेषस्तमनुसरति तच्छील. श्च यः स तथा, तद्भावस्तत्त्वं तस्मात् , शुभश्चव परिशुद्ध एवं व्यावृत्तविपर्यासदुःख एव परिणामो विज्ञेयः । ननु मार्गानुसारित्वेऽपि बठरतया कथं तत्परिणामशुद्धिरित्याशंक्याह-शुभौघसंज्ञानयोगात् शुभमविपर्यस्तमोघेन सामान्येन सुबहुविशेषावधारणाक्षमं यत्संज्ञानं वस्तुतत्त्वसंवेदनरूपं तस्य योगात् । ते हि बहिर्बहु श्रुतमपठन्तोऽपि अतितीक्ष्णसूक्ष्मप्रज्ञतया बहुपाठकस्थूलप्रज्ञपुरुषानुपलब्धं तत्त्वमववुध्यन्त इति । तदुक्तं-"स्पृशन्ति शरवत्तीक्ष्णाः स्वल्पमन्तर्विशन्ति च । बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥१॥"
कथानकसम्प्रदायश्चवम्
बभूव कश्चिदाचार्यो गुगरत्नमहानिधिः । श्रतमत्यथिशिष्यालिसेव्यमानक्रमाम्बुजः ॥॥ सूत्रार्थपाथसां दाने महाम्भोद इवाश्रमः । संघादिकार्यभाराणां निस्तारे धुर्यसन्निभः ॥२॥ तस्यैवान्योऽभवद भ्राता विशिष्टश्रुतवर्जितः । स्वेच्छया स्थाननिद्रादेः कर्ता स्वार्थपरायणः ॥३॥ तत्र सूरिः कचित्कार्ये श्रान्तः सन् मुग्धबुद्धिभिः । अज्ञातावसरैः शिष्याख्यानं कारितः किल ॥४॥ ततोऽसौ श्रान्तदेहत्वाद् व्याख्यायामक्षमत्वत: । चित्तखेदं जगामात्र चिन्तयामास चेदृशम् ॥५॥ धन्योऽयं पुण्यवानेष मद्माता निर्गुणो यतः। सुखमास्ते सुखं शेते पारतंत्र्यविवर्जितः ॥६॥ वयं पुनरधन्या ये स्वगुणैरेव वश्यताम् । परेषां प्रापिताः स्थातुं सुखेन न लभामहे ॥७॥ एवं
15
20
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org