SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रव्रज्यापरिपालनासूत्रम् । अत एवाह-विराधनेत्यादि । विराधना प्रक्रमादध्ययनस्य अनर्थमुखा उन्मादादिभावेन । अ(इ ?)यं च गुरुतरदोषापेक्षयाऽर्थहेतुः, पारम्पर्येण मोक्षाङ्गमेवेत्यर्थः । कुतः ? इत्याह-तस्यारम्भाद, ध्रुवम् , मोक्षगमनस्यैवारम्भात्, कण्टक-ज्वर-मोहोपेतमार्गगन्तवत् । उक्तं च ___ मुनेर्मार्गप्रवृत्तिर्या, सा सदोषाऽपि सैव हि ।। २कण्टक-ज्वर-सन्मोहयुक्तस्येव सदध्वनि ॥ [ ] __एतद्भावे लिङ्गमाह-अत्र विराधनायां सत्यां मार्गदेशनायां पारमा. थिकायामनभिनिवेशः श्रृण्वतो भवति, हेयोपादेयतामधिकृत्य । यथाह समेषु स्खलन्नन्ध-बधिरवन्मूकवल्स रूपादिषु, तथा सन्मोहात् [ ] इति । तथा प्रतिपत्तिमात्रं मनाग विराधकस्य, नानभिनिवेशः। तथा क्रिया- 10 रम्भोऽल्पतरविराधकस्य, न प्रतिपत्तिमात्रम् । एवं किम् ? इत्याह -एवमपि विराधनयाऽधीतमधीतं सूत्रं भावतः। कुतः ? इत्याह -अवगमलेशयोगतः सम्यगवबोधलेशयोगेन । अयं सबीजो नियमेन विराधकः, सम्यग्दर्शनादियुक्त इत्यर्थः । कुतः ? इत्याह-मार्गगामिन एवैषा विराधना, प्राप्तबीजस्येति भावः । न सामान्येनैव, किं तर्हि ? अपायबहलस्य निरुपक्रमक्लिष्टकर्मवतः। 15 १ ° मुखानुन्मादादि ० S। ° मुखानन्मादादि ° Aमू० । ° मुखा उन्मादादि ० Aसं०॥ २ तुला--"विधनजयस्त्रिविधः खलु विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टक-ज्वर-मोह जयसमः प्रवृत्तिफलः ॥३।९॥” इति आचार्यश्री हरिभद्रसूरिविरचिते षोडशकप्रकरणे ॥ "अपायमेवाधिकृत्य परमतसंवादमाह कण्टक-ज्वर-मोहैस्तु समो विघ्नः प्रकीर्तितः। मोक्षमार्गप्रवृत्तानामत एवापरैरपि ॥३७॥ कण्टक-ज्वर-मौहस्तु कण्टकेन ज्वरेण मोहेन च पुनः समस्तुल्यः विघ्नः प्रत्यूहो जघन्य-मध्यमोत्कष्टभेदभिन्नः प्रकीर्तितो निरूपितः मोक्षमार्गप्रवत्तानां सम्यग्दर्शनाद्याराधनावहितात्मनाम् अत एव योगनिरनबन्धत्वादेव हेतोः अपरैरपि योगिभिः, न केवलमस्माभिरित्यपिशब्दार्थः । यथा हि केषांचित् पथिकानां क्वचित् पाटलिपुत्रादौ गन्तुं प्रवृत्तानां कण्टक-ज्वर-मोहरभिभूतानां यथाक्रमं स्तोक-बहु-बहुतरकालं गमनभङ्गहेतुर्विधनः सम्पद्यते एवं योगिनामपि सिद्धिपथप्रस्थितानां तथाविधकर्मोदयात् त्रिप्रकारोऽन्तरायः समुपजायत इति ॥३७४।।" इति सटीके योगबिन्दौ। ३ यद्यपि S.A.B. हस्तलिखितादर्शेषु अत्र ° बहुलस्यांनिरुपक्रम ° इति पाठ उपलभ्यते तथापि बहुलस्य निरुपक्रम इति पाठ एवात्र समी वीनः । तुला-“अथापायमेव व्याचष्टे अपायमाहुः कर्मैव निरपायाः पुरातनम् । पापाशयकरं चित्रं निरुपक्रमसंज्ञकम् ॥३७३॥ ___20 ___ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy