________________
5
10
४८
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङकृते पञ्चसूत्रके नियुक्तमिति । अन्यथाऽविध्यध्ययनेऽनियोगः, नियोगादन्योऽनियोगः, 'विपर्ययानि(नि?)योग इत्यर्थः । अत एवाह-अविधिगृहीतमन्त्रज्ञातेन, तत्रापि ग्रहादिभावाद्विपर्ययात् नियोग एव ।।
अनाराधनायामेकान्तेन(ना)प्रवृत्तस्य न किञ्चिदिष्टमनिष्टं वा फल मोक्षोन्मादादि । सदनुष्ठानं हि मोक्षफलमेव । यथोक्तम्
श्रामण्यस्य फलं मोक्षः प्रधानमितरत् पुनः ।।
तत्त्वतोऽफलमेवेह ज्ञेयं कृषिपलालवत् ॥ [ ] भङ्गस्याप्युन्मादायेव । यथोक्तम्
"उम्मादं व लभेज्जा रोगातङ्क व पाउणे दीहं ।
केवलिपण्णत्ताओ धम्माओ वा वि भंसेज्जा" ॥ [आव० नि० १४१४] न पुनरसम्यक्त्वमेव ।
कथमत्र 'अनाराधनायां न किञ्चित्' ? इत्याह-तदनारम्भतेो ध्रुवम् , तत्त्वतस्तस्यानारम्भात् । न चान्यस्मिन्नेवोद्भवत्यतिप्रसङ्गात् । इहैव लिङ्गमाह-अत्रानाराधनायाम् , मार्गदेशनायां तात्त्विकायां दुःखं श्रृण्वतो भवति । उक्तं च___शुद्धदेशना हि क्षुद्रसस्वमृगयूथसंत्रासनसिंहनादः । [ ललितविस्तरा पृ० ६ ] तथा अवधीरणा मनाग्लघुतरकर्मणः, न दुःखम् । तथा अप्रतिपत्तिस्ततोऽपि लघुतरकर्मणः, नावधीरणा । ततः किम् ? इत्याह-नैवमनाराधनयाऽधीतमधीतं सूत्रं तत्त्वतः । कुतः ? इत्याह-अवगमविरहेण सम्यगवबोधाभावेन । नैषा मार्गगामिन एकान्तमनाराधना भवति, सम्यक्त्वादिभावे सर्वथा सक्रियायोगात् । १ विपर्ययानियोग Spo A.B. । विपर्ययोनियोग Sसं० । अत्र 'विपर्ययो[s]नियोगः' इति अथवा 'विपर्ययाद]नियोगः' इति पाठोऽपि कदाचित् संभवेत् ॥२ 'यात् योग एव S० A.B ॥ ३. °न्तेन प्रस्तुतस्य Sमू० । Sमू० विना °न्तेन प्रवृत्तस्य इत्येवं यद्यपि सवषु हस्तलिखितादर्शेषु पाठ उपलभ्यते तथापि °न्तेनाप्रवृत्तस्य इति पाठः समीचीनो भाति । 'अनाराधनायाम' इति पदस्य 'एकान्तेनाप्रवृत्तस्य' इत्याशयोऽत्र ज्ञेयः । पृ० ४९ पं०१ मध्ये 'विराधना प्रक्रमादध्ययनस्य' इति वक्ष्यते, तदनुसारेणात्र यदि 'प्रस्तुतस्य अध्ययनस्य एकान्तेन अनाराधनायाम्' इति विवक्षा भवेत् तदा तु न्तेन प्रस्तुतस्य इति SHO. पाठोऽत्र समीचीनो भातीति ध्येयम् ॥ ४. व्याख्या-"खेत्तादिगो उम्माओ, चिरकालिओ रोगो, आसुघाती आयंको, एतेण वा पावेज्जा, धम्माओ भंसेज्जा, मिच्छदिट्ठी वा भवति, चरित्ताओ वा परिवडइ ॥” इति आवश्यकसूत्रस्य हरिभद्रसूरिविरचितायां वृत्तौ॥ ५. न चान्यस्मिन्नेवाद्भवत्य'S | अत्र S. अनुसारेण न चान्यस्मिन्नेवान्याढवत्य. इत्यति पाठः कदाचित् स्यात् ।।
15
20
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org