________________
5
10
15
20
25
DE 30
तुर्थं प्रव्रज्यापरिपालनासूत्रम् ।
४७
समशत्रु मित्रः । एवं निवृत्ताग्रहदुःखः, अतः स प्रशमसुखसमेतः अधिकारितया सम्यक शिक्षामादत्ते ग्रहणा-ऽऽसेवनारूपाम् । कथम् ? इत्याहगुरुकुलवासी, तदनिर्गमनेन । गुरुप्रतिबद्धः, तद्बहुमानात् । विनीतो बाह्यविनयेन । भूतार्थदर्शी तत्त्वार्थदर्शी । न इतो गुरुकुलवासात् 'हिततरमिति मन्यते, वचनानुसारित्वात् । वचनं च
णाणस्स होइ भागी, थिरयरओ दंसणे चरिते य ।
ण्णा आवकहा, गुरुकुलवासं ण मुंबंति ॥ [ पञ्चाशके ११।१६ ]
स खल्वत्र शुश्रूषादिगुणयुक्तः, शुश्रूषा श्रवण- ग्रहण-धारणा-विज्ञाने (नो)हा- पोह- तच्चाभिनिवेशा: प्रज्ञागुणा इत्येतद्युक्तः । तत्त्वाभिनिवेशाद् विधिपरः सन् किम् ? इत्याह- परममन्त्री रागादिविषघ्नतयेति कृत्वाऽधीते सूत्रं पाठ- श्रवणाभ्याम् । किंविशिष्टः सन् ? इत्याह-बद्धलक्षोऽनुष्ठेयं प्रति, आशंसाविप्रमुक्तः इहलोकाद्यपेक्षया, आयतार्थी मोक्षार्थी । अत एव स एवं - भूतः तत् सूत्रमवैति सर्वथा याथातथ्येन । ततः किम् ? इत्याह- ततोऽवगमात् सम्यग् नियुङ्क्ते तत् सूत्रम् । एतद्वीराणां शासनं यदुतैवमधीतं सम्यग्
तत्वमिति A.B. ॥ " ज्ञानस्य श्रुतज्ञानादेः प्रत्यहं वाचनादिभावात् । दर्शने सम्यक्त्वेऽन्वह
१. हिततत्रमिति Sमू० । हिततत्वमिति Sसं० । हितं २. गाथेयं पञ्चवस्तुके १३५८ उपदेशपदे ६८२ चाप्यस्ति । भवति स्यात्, भागी भाजनम्, गुरुकुले वसन्निति प्रकृतम्, तथा स्थिरतरकः पूर्वप्रतिपन्नदर्शनोऽपि सन्नतिशय स्थिरो भवति स्वसमयपरसमयतत्त्वश्रवणात् । तथा चरित्रे चरणे स्थिरतरो भवति, अनुवेलं वारणादिभावात् । चशब्दः समुच्चये । यत एवं ततो धन्या धर्मधनं लब्धारः यावत्कथं यावज्जीवम् गुरुकुलवासं गुरुगृहनिवसनं न मुञ्चन्ति न त्यजन्ति । इति गाथार्थः ।" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ पृ० १८२ ।। ३ " शुश्रूषा श्रवण ग्रहण -धारणा-विज्ञानोहापोहतत्त्वाभिनिवेशा प्रज्ञागुणाः इति ललितविस्तरायां 'सरणदयाणं' इत्यस्य व्याख्यायाम् । "शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ तंत्र शुश्रूषा श्रोतुमिच्छा । श्रवणमाकर्णनम् । ग्रहणं शास्त्रार्थोपादानम् । धारण मविस्मरणम् । ऊहोऽविज्ञातमर्थमवलम्ब्यान्येषु तथाविधेषु व्याप्त्या वितर्कणम् । अवोह उक्ति युक्तिभ्यां विरुद्धादर्थाद् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्तनम् । अथवा ऊहः सामान्यज्ञानम्, अपोहो विशेषज्ञानम् । अर्थविज्ञानमूहापोहयोगाद् मोह - सन्देह - विपर्यासव्युदासेन ज्ञानम् । तत्त्वज्ञानमूहापोहविज्ञानविशुद्धम् 'इदमित्थमेव ' इति निश्चयः । शुश्रूषादिभिर्हि उपाहितप्रज्ञाप्रकर्षः पुमान् न कदाचिदकल्याणमाप्नोति । एते च बुद्धिगुणा यथासम्भवं द्रष्टव्याः || ” इति योगशास्त्र स्वोपज्ञवृत्तौ प्रथमप्रकाशे पृ० १५३ ॥
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org