________________
साम्प्रतं चतुर्थसूत्रव्याख्याऽऽरभ्यते । अस्य चायमभिसंबन्धः - अनन्तरसूत्रे साधुधर्मे परिभाविते यत् कर्त्तव्यं तदुक्तम् , तच्च विधिना प्रवज्या ग्राह्येत्येतत् । अस्य चर्यामभिधातुमाह
स एवमभिपव्वइए समाणे सुविहिभावओ किरियाफलेण जुज्जइ, विसुद्धचरणे महासत्ते, न विवज्जयमेइ । एयाभावेऽभिप्पेयसिद्धी उवायपवित्तीओ । नाविवज्जत्थोऽणुवाए पयट्टइ। उवाओ य उवेयसाहगो नियमेण । तस्सतत्तचाओ अण्णहा, अइप्पसंगाओ, निच्छयमयमेयं ।।
स एवमभिपव्वइए समाणे सुविहिभावतो किरियाफलेण जुज्जती20 त्यादि । स प्रस्तुतो मुमुक्षुः, एवमुक्तेन विधिनाऽभिप्रव्रजितः सन् सुविधि
भावतः कारणात् क्रियाफलेन युज्यते, सम्यक्रियात्वादधिकृतक्रियायाः। स एव 'विशेष्यते-विशुद्धचरणो महासत्वः, यत एवंभूतः अतो न विपर्ययमेति मिथ्याज्ञानरूपम् । एतदभावे विपर्ययाभावेऽभिप्रेतसिद्धिः सामा
न्येनैव । कुतः ? इत्याह-उपायप्रवृत्तेः। इयमेव कुतः ? इत्याह-नाविपर्यस्तोऽ. 15 नुपाये प्रवर्तते । इयमेवाविपर्यस्तस्याविपर्यस्तता यदुतोपाये प्रवृत्तिः, अन्यथा
तस्मिन्नेव विपर्ययः । एवमपि किम् ? इत्याह- उपायश्चोपेयसाधको निय. मेन, कारणं कार्याव्यभिचारीत्यर्थः, अतज्जननस्वभावस्य तत्कारणत्वायोगादतिप्रसङ्गात् । एतदेवाह-तत्स्वतत्वत्याग एव उपायस्वतत्त्वत्याग एवान्यथा स्वमुपेयमसाधयतः । कुतः ? इत्याह अतिप्रसङ्गात्, तदसाधकत्वाविशेषेणानुपायस्याप्युपायत्वप्रसङ्गात् । न चैवं व्यवहारोच्छेद आशङ्कनीय इत्याह-निश्चयमतेमेतदतिसूक्ष्मबुद्धिगम्यम् ।
से समलेढुकंचणे समसत्तुमित्ते नियत्तग्गहदुक्खे पसमसुहसमेए सम्मं सिक्खमाइयइ, गुरुकुलवासी, गुरुपडिबद्धे, विणीए, १. विशिष्यते S. ॥ २० तमेतदितिसूक्ष्म ° S. विना । तुला – “निश्चयनयमतमेतदतिसक्ष्मबद्धिगम्यमिति लोकोत्तमाः” इति आचार्यश्रीहरिभद्रसूरिविरचितायां ललितविस्तर 'लोकोत्तम'शब्दव्याख्यायाम् ।। ३ लेट्ठकंचणे K. ॥ ४ °माईयह K. ॥
10
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org