SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रकै अह सत्तमम्मि मासे गव्भत्थो चेवऽभिग्गहं गेहे । णाहं समणो होहं अम्मापियरे जियंतम्मि ॥ [ आवश्यकमूलभाष्ये ५९ ] प्रस्तुत निगमनायाह - एवमपरोपतापं सर्वथा सम्यक् प्रव्रजेदिति योगः । विधिशेषमाह - सुगुरुसमीपे, नान्यत्र । पूँजयित्वा भगवतो वीतरागान् जिनान्, तथा साधून् यतीन् । 'तोषयित्वा विभवोचितं कृपणादीन् दुःखितसच्चानित्यर्थः । सुप्रयुक्तावश्यकः सैन्नुचितेन नेपथ्यादिना सुविशुद्धनिमित्तः प्रतियोगं समभिवासितो गुरुणा गुरुमन्त्रेण विशुद्धयमानो महता प्रमोदेन लोकोत्तरेण सम्यग् भाववन्दनादिशुद्धया प्रव्रजेत् । किमुक्तं भवति ? लोकधर्मेभ्यः स ( ? ) बलेभ्यः लोकोत्तरधर्मगमनेन प्रकर्षेण व्रजे - दित्यर्थः । एषा जिनानामाज्ञा यदुतैवं प्रव्रजितव्यम् । इयं च महाकल्याणेति कृत्वा न विराधितव्या बुधेन, नान्यथा कर्तव्येत्यर्थः । कस्मात् ? इत्याह-महानर्थभयात् । नाज्ञाविराधनतोऽन्योऽनर्थः । अर्थवत्तदाराधना इति । अत एवाह - सिद्धिकाङ्क्षिणा मुक्त्यर्थिनेति । न खल्वाज्ञाराधनातोऽन्यः सिद्धिपथ इति भावनीयम् । प्रव्रज्याग्रहणविधिसूत्रं समाप्तम्, तवतः प्रव्रज्याग्रहण विध्यर्थसूचकं सूत्रं समाप्तम् । ॥ पञ्चसूत्रकव्याख्यायां तृतीयसूत्रव्याख्या समाप्ता ॥ (f १ गमनिका - अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयत्न करणेनात्यन्तस्नेहं विज्ञाय अहो ममोपर्यतीव अनयो: स्नेह इति यद्यहमनयोः जीवतोः प्रव्रज्यां गृह्णामि नूनं न भवत एता - वित्यतो गर्भस्थ एव अभिग्रहं गृह्णाति, ज्ञानत्रयोपेतत्वात् । किंविशिष्टमित्याह - नाहं श्रमणो भविष्यामि मातापित्रोर्जीव तोरिति गाथार्थः ॥” इति आवश्यकसूत्रस्य हरिभद्रसूरिविरचितायां ती ॥ २ पियरंमि जीवंते" इति आवश्यकमूलभाष्ये पाठः ॥ ३ पूजित्वा S. Aमू० B ॥ ४ तोषित्वा S. Aमू० B ॥ ५ समुचितेन Aसंo B संमुचितेन मू० ॥ • Jain Education International For Private & Personal Use Only 5 10 15 20 www.jainelibrary.org
SR No.001111
Book TitlePanch sutrakam with Tika
Original Sutra AuthorChirantanacharya, Haribhadrasuri
AuthorJambuvijay, Dharmachandvijay, V M Kulkarni
PublisherB L Institute of Indology
Publication Year1986
Total Pages179
LanguagePrakrit, Sanskrit, English, Gujarati
ClassificationBook_Devnagari, Karma, Principle, B000, B015, G000, & G015
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy