________________
७८८
स्कन्धव्यतिरिक्तस्यात्मनो निराकरणम्) द्वादशारं नयचक्रम्
तत्रापि शिखरादिविभागादेव न स्यादिति चेत्, न, बुद्धिविभागेऽप्यनन्यत्वात् पानकवत्, तद्यथा-मरिचक्षोद... .. [ युक्तितो मिश्रितेषु ] पानकम्.............. सुखितो दुःखितः...................। माधुर्य................."तथैव पुरुष......................
औदासीन्याच्च तत्त्वेषु अहंमानाकुशलसंस्कारानुशयाद् 'आत्मास्ति' इत्यहंकार: प्रवर्तते। ततो न पञ्चस्कन्धव्यतिरिक्तः पुरुषः।
तत्रापि शिखरादिविभागादेव न स्यादिति चेत्, स्यान्मतम्-बुद्धया विभज्यमानाः शिखरादयः पृथगुपलभ्यन्ते पृथक्छिखरी, ने तद्वद् रूपादिभ्य आत्मेति । तदपि न, बुद्धिविभागेऽप्यनन्यत्वात् पानकवत् । तद्यथा-मरिचक्षोदेत्यादि यावत् पानकमिति दृष्टान्तवर्णनम्। दार्टान्तिकवर्णनं तु स सम्प्रयुक्तविज्ञानादिधर्मव्यतिरिक्तात्माभावसाधर्म्यात् तद्यथा-सुखितो दुःखित ५१०-१ इत्यादि । माधुर्येत्यादि पानकाङ्गद्रव्यगुणविचारोऽर्थान्तरसाधनाय नालमिति दृष्टान्तः, दान्तिकः 10. तथैव पुरुषेत्यादि । तृष्णाच्छेदादिप्रयोजनसिद्धिर्यथा तदतिरिक्तार्थाभावेऽपि तथा कर्मफलसम्बन्धादिसंव्यवहारप्रयोजनसिद्धिः पञ्चसु रूपादिषु स्कन्धेष्वेव, अतस्तदतिरिक्तात्मपरिकल्पनावैयर्थ्यमिति ।
कुतः पुनरात्मग्राह : प्रवर्तते? इत्यत्रोच्यते- औदासीन्याच्चातत्त्वेष्वी (वि)त्यादि । तत्त्वविचारं प्रत्यौदासीन्यात् पञ्चस्कन्धतत्त्वविपरीतात्मपरिकल्पनया विपर्ययज्ञानीभूतत्वाच्चित्तस्य माना-ऽतिमानादिसप्तमानान्तर्गताहंमानाकुशलसंस्कारानुशयात् अहंमानाख्याकुशलधर्मनिक्षिप्त- 15 वासनापरिपाकात् 'आत्माऽस्ति' इत्यहङ्कारःप्रवर्तते, तंतो न पञ्चस्कन्धव्यतिरिक्तः पुरुष इति।
१ पृथगुच्छिखरी प्र०॥ २ र तद्वद्रूषा भा० । रतद्रूपा य० ॥ ३ तुलना द्वादशेऽरे पृ० ५३१-१ इत्यत्र द्रष्टव्या ।। ४ क्षोद्रे भा० । क्षौद्रं मधु चेद् विवक्षितं तदा क्षौद्रे इति समीचीनः पाठः ।। ५ (तथा?)। तुलना द्वादशेऽरे पृ० ५३१-२॥ ६ तुलना द्वादशेऽरे पृ० ५३०-१॥ ७ तुलना द्वादशेऽरे पृ० ५३१-२॥ ८ तत्त्वेषीत्यादि भा। (तत्त्वेऽपीत्यादि ?)॥ ९ "मानसंयोजनं कतमत्। सप्त माना :-मानोऽतिमानो मानातिमानोऽस्मिमानोऽभिमान ऊनमानो मिथ्यामानश्च। मानः कतमः? हीनात् श्रेयानस्मि, सदशेन सदृशोऽस्मीति वा या चित्तस्योन्नतिः । अतिमानः कतमः? सदशात् श्रेयानस्मि श्रेयसा सदशोऽस्मीति वा या चित्तस्योन्नतिः। मानातिमानः कतम: ? श्रेयसः श्रेयानस्मीति या चित्तस्योन्नतिः । अस्मिमानः कतमः ? पञ्चसुपादानस्कन्धेषु आत्मात्मीयाभिनिवेशाद या चित्तस्योन्नतिः। अभिमानः कतमः? अप्राप्ते उत्तरे विशेषाधिगमे प्राप्तो मयेति या चित्तस्योन्नतिः। ऊनमान: कतमः? बह्वन्तरविशिष्टादल्पान्तरहीनोऽस्मीति या चित्तस्योन्नतिः। मिथ्यामान: कतमः? अगुणवतो गुणवानस्मीति या चित्तस्योन्नतिः। मानसंयोजनेन संप्रयुक्त आत्मात्मीयौ न संजानाति । असंज्ञानात् आत्मात्मीयग्रहः अकुशलसमुदाचारः कुशलासमुदाचारश्च । तेनायत्यां दु:खाभिनिवृत्तौ दुःखेन संयुज्यते।" इति अभिधर्मसमुच्चये असङ्गविरचिते नवसु संयोजनेषु मानसंयोजननिरूपणे पृ० ४५ [ Visva Bharati Studies 12|| "मानो हि नाम सर्व एव सत्कायष्टिसमाश्रयेण प्रवर्तते। स पुनश्चित्तस्योन्नतिलक्षणः। तथाहि-आत्मात्मीयभावं स्कन्धेषु अध्यारोप्य 'अयमहमिदं मम' इत्यात्मानं तेन तेन विशेषेणोन्नमयति, अन्येभ्योऽधिकं मन्यते । स च अगौरवदुःखोत्पत्तिसंनिश्रयदानकर्मकः । अगौरवं गुरुषु गुणवत्सु च पुद्गलेषु स्तब्धता कायवाचोरप्रसृतता, दुःखोत्पत्तिः पुनरत्र पुनर्भवोत्पत्तिः । स च पुनश्चित्तोन्नतिस्वरूपाभेदेऽपि चित्तोन्नतिनिमित्तभेदात् सप्तधा भिद्यते-मानोऽतिमान इत्येवमादि।..................." इति स्थिरमतिविरचिते त्रिशिकाविज्ञप्तिभाष्ये प० २८ ।। १० ततो पञ्च य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org