________________
७८९
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ दशमे नियमविध्यरे
एष च 'रूपादितत्त्वस्य वस्तुव्यवस्थागतिविनिर्मुक्तघटादिसमुदायवस्त्वन्तरसंक्रान्तिः स्यात्, सा चोभयावस्तुत्वापादनाय' इति प्रतिपत्तेः समभिरूढः यस्य शतसंख्यस्यापीदमेव लक्षणम्।
वत्थूणं संकमणं होति अवत्थू गये समभिरूढे । [ आव. नि. ७५७] 5 इति । तत्रायं तस्य गुणसमभिरूढो नाम प्रभेद एव । अयं च नियमविधिः । अस्य चोत्पत्ति[वि]गति-स्थितिभिरपि नैव सम्बध्यते [वस्तु] उत्पातादित्रयसङक्रान्तेरप्यभावात् तदुभय
एवं वस्तुतोऽस्य नयस्य दर्शनं प्रदर्शितम् । अधुना कतमनयविकल्पोऽयम्? इत्येतन्निश्चयार्थमाहएष च रूपादितत्त्वस्येत्यादि । एष नयो 'रूपादिमात्रमेव वस्तु, तच्च वस्त्वन्तरं समुदायाख्यं न सङ्का
मति' इतीच्छति, अतो घटादिसमुदायवस्त्वन्तरसङ्क्रान्तेरयथार्थत्वदोषाद् वस्तुव्यवस्थाया या गतिस्तां 10 विमुञ्चेत्, अतो वस्तुव्यवस्थागतिविनिर्मुक्तेर्घटादिसमुदायवस्त्वन्तरसङक्रान्तिः स्यात्, सा ५१०-२ चोभयावस्तुत्वापादनाय, रूंपादयस्तत्समुदायश्चावस्तुनी स्याताम्, रूपादयः समुदायरूपापत्तेः
स्वरूपेऽनवस्थितत्वादवस्तु, समुदायो रूपादिरूपवत् स्वरूपेण तस्याव्यवस्थितत्वादवस्त्विति उभयावस्तुत्वमापादयेत् सा वस्त्वन्तरसङक्रान्तिरितीत्थं प्रतिपत्तेः समभिरूढ एवं मत्वा एकीभावेना भिमुख्येन ‘एक एव रूपादिरर्थ एव' इति या या संज्ञा तां तां समभिरूढः यस्य शतसङ्ख्यस्यापीदमेव 15 लक्षणम् एक्केक्को य सतविधो [आव० नि० ७५९] त्ति शतसङ्खयं सप्रभेदमेवम्भूतं व्याप्नोत्येतद् लक्षणम् । तत्साक्षी (क्षि) भूतं तत्संवादि नियुक्तिलक्षणमाह
वत्थूणं संकमणं होति अवत्थू णये समभिरूढे [आव० नि० ७५७] इति।
तत्रायमित्यादि। तत्रंतल्लक्षणं (णे) वत्यूतो संकमणं होति अवत्थू णये समभिरूढे [आव०नि० ७५७] त्ति तस्य शतभेदस्य सप्तनयशतारनयचक्रे समभिरूढे शतधा भिन्ने 'कतमः समभि20 रूढोऽयम् ?' इति मृग्यमाणे गुणसमभिरूढो नामायं पर्यायसमभिरूढादन्यस्तत्प्रभेद एव प्रवक्ष्यमाणः । अयं च नियमविधिः, अस्यैव गुणसमभिरूढस्य पुनरिमे भेदाः- विधिः १ विधिविधिः २
१ एव च य० । एवं च भा० । २ इति अतो य० ॥ ३ सचों प्र० ॥ ४ रूपादयपश्चादिवस्तुनी भा० । स्तत्समुदायपश्चादवस्तुनी य० ।। ५ समुदयो भा० ॥ ६ स्वरूपेन तस्य व्यवस्थि भा० । स्वरूपेण तस्यावस्थि" य० ॥ ७भावना भा० ॥ ८ दृश्यतां पृ० ५५० टि० १॥ ९ "सम्प्रति समभिरूढमाह-वत्थुओ संकमणं होइ अवत्यु नये समभिरूढे । वस्तुनो घटाख्यादिकस्य संक्रमणम्-अन्यत्र कुटाख्यादौ गमनम्, किम् ? भवति अवस्तु, असदित्यर्थः, नये पर्यालोच्यमाने, कस्मिन्नये इत्याह-समभिरूढे, सम् एकीभावेन अभिरोहति व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ यः स समभिरूढः । एष हि पर्यायशब्दानामपि प्रविभक्तमेवार्थमभिमन्यते यथा घटनाद् घटः...कुटनात् कुट:...। न शब्दान्तराभिधेयं वस्तु द्रव्यं पर्यायो वा तदन्यशब्दवाच्यवस्तुशब्दरूपतां संक्रामति, न खलु पटशब्दवाच्योऽर्थो जातुचिदपि घटशब्दवाच्यवस्तुरूपतामास्कन्दति, तथानुपलम्भात् आस्कन्दने वा वस्तुसांकर्यापत्तिः। तथा च सति सकललोकप्रसिद्धप्रतिनियतविषयप्रवृत्तिनिवृत्त्यादिव्यवहारोच्छेदप्रसङ्गः।” इति मलयगिरिसूरि
विरचितायाम् आवश्यकनियुक्तिवृत्तौ पृ० ३७६-३७७ ॥ १० स्तत्प्रदेश य० ॥ ११ दृश्यतां ५११-२॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org