________________
७९०
नियमविधिस्वरूपम्
द्वादशारं नयचक्रम् मभूतं रूपादि च भूतम्, तयोर्वस्त्वन्तरसंक्रान्तेर्ननूभयं व्याहन्यते । स्थितिरपि च भावनात्मिका भवन्त्येव भवतीत्यतो भवनव्याप्तेर्भवनं सर्वत्र संक्रामति वस्त्वन्तरमिति न वस्तुतैव स्थितेरपि।
अथ तथा तथा भाव एव भवतीति तस्यैवैकस्याभिव्याप्तिः, तन्न, प्रतिवस्तु तथा भवनस्य भूतत्वाद् नन्वभवनेनापि व्याप्तिरस्त्येवैवमिति भावाभावयोः संक्रान्तेरवस्तुता 15 तस्मात् स्थित्युत्पत्तिविगतिनिरपेक्षरूपादिमात्ररूपतायां सर्वसिद्धिः। मूढसमभिरूढस्य दर्शनेन तूत्पादव्यययोग एव रूपादीनाम् ।
विध्युभयम् ३ विधिनियमः ४ उभयम् ५ उभयविधिः ६ उभयोभयम् ७ उभयनियमः ८ नियमः ९ नियमविधिः १० नियमोभयम् ११ नियमनियमः १२ इति द्वादशधा भिन्नस्य शतभेदसमभिरूढकदेशस्यायं नियमविधिर्नाम भेद इति ।
10 किञ्चान्यत्, यथा चायं घटादिवस्त्वन्तरसंङक्रान्ति नेच्छति रूपादीनां तथास्य चोत्पत्ति[वि]गति-स्थितिभिरपि नैव सम्बध्यते नयस्य, उत्पातादित्रयसङक्रान्तेरप्यभावात् । ५११.१ यद्युत्पत्त्यादिवस्त्वन्तरसङक्रान्तिः स्यात् कुतोऽस्य समभिरूढता स्यात् ? इति । कथम् ? इति दर्शयतिउत्पत्ति-विगत्योस्तावत् प्रागभाव-प्रध्वंसाभावात्मकत्वात्, उत्पत्तिः प्रागभावः, विनाशः प्रध्वंसाभावः, तदुभयमभूतम्, रूपादि च भूतम्, तयोर्भूताभूतयोर्वस्त्वन्तरसङक्रान्तेर्ननूभयं व्याहन्यते, 15 भूतं चेत् कथमभूतम् ? अथाभूतं कथं भूतं रूपादि वस्तु ? इति।
___ उत्पत्ति-विनाशानाश्रिता स्थिति तत्वाद् न व्याहन्यते रूंपादिनेति चेत्, उच्यते-सत्यं भूता, स्थितिरपि च भवनात्मिका भवन्त्येव भवतीत्यतो भवनव्याप्तेः सर्वप्रकारैः सर्वं भवति 'घटोऽपि रूपमपि रसोऽपि' इत्यादि भवनं सर्वत्र सङक्रामति वस्त्वन्तरमिति न वस्तुतैव स्थितेरपीति।
अथ तथा तथेत्यादि । अथ मन्यसे तेन तेन प्रकारेण घटरूप-रसादिना भाव एव भवतीति 20 तस्यैवैकस्याभिव्याप्तिन वस्त्वन्तरसङक्रान्तिरिति। तन्न, कस्मात् ? प्रतिवस्तु तथा भवनस्य भूतत्वात्, रूपस्य रसाद्यात्मना रसस्य रूपाद्यात्मना गन्धस्यापि शेषात्मना परस्परव्यावृत्तात्मना सर्वस्य वस्त्यु (वस्तुनः) प्रत्यु[प]हतत्वात् नन्वभवनेनापि व्याप्तिरस्त्येवैवमिति भावमभावः सङक्रामति अभावं वा भाव इति महती सङक्रान्तिः, तस्या एव हेतोरवस्तुता।
१ संक्रान्ती भा०। संक्रान्ती य०। (°संक्रान्तीनेच्छति ? ) ॥ २ उत्पूर्वस्य पतते: प्रयोग एकादशेऽरेऽपि प्रारम्भे दृष्टः ॥ ३ तुलना-तत्त्वार्थसिद्धसेनीयवृत्तौ पृ० ३८९५० ६, सू० ५।२९॥ ४ रूपादिने चेत् य० ॥ ५ भवत्येव प्र० । अस्य तुलना एकादशे द्वादशे चारे द्रष्टव्या ।। ६ भवनव्युत्पत्तेः य० ॥ ७ तत्र य० ॥ ८ तस्त्यु य० । (तस्य ? )।। ९ प्रत्यह भा० । (प्रत्याहतत्वात् ? ) ॥ १० भावनभावः प्र०॥ ११ अभावं भावाभाव इति य०। अभावं भा-भाव इति भा०। (अभावं भाव इति?)॥ १२ महती प्र०। (महतां?)॥ १३ हेतुतों य०। हेततो भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org