________________
७९१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
| दशमे नियमविध्यरे " एवं हि नियमो भवति । यदि वस्तु, तथाऽविद्यमानत्वात् सामान्यादयः समुदयश्च त्याज्याः, विशेषा एव परिग्राह्याः, ततोऽधिकतरमसत्, तस्य विक्षेपेण विधिरुच्यते । इत्येष नियमस्य विधिरनन्तरातीतनयप्रतिक्षेपेण तया वा विचारप्रसिद्धोत्सर्गविधिवृत्तात्मात्मीयापवादनियमक्रियया। 5. शब्दार्थस्तु पर्यवोऽनेकता गुणः, पर्यायः पर्यवो वा, स एवास्तीत्यस्य मतिः पर्यवास्तिकः।
पृथक् पदानि वाक्यार्थः।
५११-२ तस्मात् स्थित्युत्पत्तिविगतिनिरपेक्षा रूपादयः, तन्मात्ररूपं तन्मात्रतत्त्वं चेदम्, तद्भाव
स्तन्मात्ररूपता, तस्यां च स्थित्युत्पत्ति-विगतिनिरपेक्षरूपादिमात्ररूपतायां सर्वसिद्धिः, सर्व
सिध्यति नात्र कश्चिद् दोषः। .10 अन्यस्य शतभेदसमभिरूढमध्यपतितस्य मूढसमभिरूढस्य दर्शनेन तूत्पाद-व्यययोग एव रूपादीनामिति, सोऽप्यस्ति कश्चिदामूढः किं तेन ? इत्ययं तन्नेच्छति आमूढत्वात् तस्य ।
एवं चायं गुणसमभिरूढनियमविधिरुक्तः, अत्राप्यवक्तव्यलक्षणस्याप्यनन्तरस्य नियमस्य विधेस्तद्भावनार्थमाह-एवं हि नियमो भवतीत्यादि। कथम् ? यदि वस्तु, तेन प्रकारेणाविद्यमान
त्वात् सामान्यादयः समुदयाश्च त्याज्याः, किन्तु विशेषा एव रूपादयो देशभिन्नाः प्रत्यक्षादिप्रमाण15 गोचरत्वात् परिग्राह्या इत्युक्तं ततोऽधिकतरमसत्, तस्यासतो 'विक्षेपेण विधिरुच्यते, यदि वस्तु
ततोऽस्यैवं नियमो युज्यत इत्येष नियमस्य विधिरनन्तरातीतनयप्रतिक्षेपेण पूर्वतरातीतविचारप्रसिद्धपुरुषादिवादोत्सर्गविधिवृत्तानां तदनन्तरातीतानां च विध्युभयादिवृत्तानामात्मात्मीयानामपवादेन नियमः क्रियते विधीयते इत्थं तया वा विचारप्रसिद्धोत्सर्गविधिवृत्तात्मात्मीयापवादनियमक्रिययेति व्याख्यातो नयः। 20 शब्दार्थस्तु पर्यव इति परिगमनम्, तच्चानेकता गुणः गण गुण सङ्ख्याने [ ],
रूपादयः परस्परविशिष्टा गुणाः सम्यक् ख्यानात्, स च गुणः पर्यायः परितो गमनात् पर्यवो वा
पूर्ववत् । स एवास्तीत्यादिव्याख्या गतार्था । ५१२-१ "पथक् पदानि वाक्यार्थः, स्वेन स्वेनार्थेन युक्तानि 'देवदत्त गामभ्याज शुक्लाम्' इत्यत्र
देवदत्तादिपदान्येव वाक्यम्, तेषामेवार्थो व्याख्यातार्थः, उक्तरूपात् समुदायासत्त्वात् । १ (ऽधिक्षेपेण ? ) ॥ २ विधिव्यते भा०॥ ३ तीताविचार प्र० ॥ ४°मात्मीया य० ॥ ५ मक्रियेति य० ।। ६ पाणिनीयधातुपाठे '३२१ गण संख्याने, ३५९, संकेत, ३६० ग्राम, ३६१ कुण ३६२ गुण चामन्त्रणे' इति चुरादौ दृश्यते ॥ ७ दृश्यतां पृ० ४४८ टि० २॥ ८ व्याख्यार्थः य०। (वाक्यार्थः ? ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org