SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ शब्दार्थादिवर्णनम् द्वादशारं नयचक्रम् ७९२ ____ अस्योपनिबन्धनं यतो निर्गमस्तद्यथा- कतिविहे गं भंते भावपरमाणू पण्णते? गोयमा! चतुम्विहे, तं जहा-वण्णवंते रसवंते गंधवंते फासवंते [भग. २०।५।६७०] इति। वर्णवन्त इत्यादिनिर्देशे त एव वर्णादयः परस्परवन्तः । मतुपिह संसङ्गे। इति दशमो भङ्गो नियमविधिनयः । अस्य नयस्योपनिबन्धनमार्षमुच्यते यतो निर्गमस्तद्यथा-कतिविहे गं भंते भावपरमाणू 5 . पण्णत्ते इति प्रश्ने व्याकरणं गोयमा! चतुविहे, तंजहा-वण्णवंते रसवंते गंधवंते फासवंते इति। वर्णवन्त इत्यादि, भावे वर्णादावेव पृष्टे तद्वन्तोऽन्ये केऽर्था व्याकृताः? इति चेत्, उच्यते, न केचित्, किन्तु त एव वर्णादयः परस्परवन्तः, रस-गन्ध-स्पर्शा वर्णवन्तः, वर्णस्तद्वान्, रसवर्जा रसवन्तः, गन्धवर्जा गन्धवन्तः, स्पर्शवर्जाः स्पर्शवन्त इति मंतुपा निर्दिष्टाः, यस्माद् मतुपिह संसङ्गे परस्परसंसक्ता एव वर्णादय इति । "भूमि (म)-निन्दा-प्रशंसासु नित्ययोगेऽतिशायने । संसङ्गेऽस्ति विवक्षायां भवन्ति मतुपादयः ॥ [पा० म० भा० ५।२।९४] १ तुलना पू० ५१८-२ ।। २ कई य० ॥ ३ पन्नत्ते य० ॥ ४ चउविहे य०॥ ५ "कइविहे भंते ! परमाणु पन्नत्ते? गोयमा ! चउब्विहे परमाणू प० तंजहा-दव्वपरमाणू खेत्तपरमाणू कालपरमाणू भावपरमाणू । दव्वपरमाणू णं भंते कइविहे प० ? गोयमा चउविहे प० तं० अच्छेज्जे अभेज्जे अडझे अगेज्झे। खेत्तपरमाणू णं भंते कइविहे प०? गोयमा चउब्विहे प० तं० अणद्धे अमज्झे अपदेसे अविभाइमे। कालपरमाणू पुच्छा, गोयमा चउविहे प० तं० अवन्ने अगंधे अरसे अफासे। भावपरमाणू णं भंते कइविहे प० ? गोयमा चउबिहे प० तं०-वन्नमंते गंधमंते रसमंते फासमंते। सेवं भंते २ त्ति जाव विहरति । [भगवतीसु० २०१५।६७०] परमाण्वाद्यधिकारादेवेदमाहकईत्यादि । तत्र द्रव्यरूपः परमाणुर्द्रव्यपरमाणुः एकोऽणुः, वर्णादिभावानामविवक्षणाद् द्रव्यत्वस्यैव विवक्षणादिति । एवं क्षेत्रपरमाणु: आकाशप्रदेशः । कालपरमाणुः समयः । भावपरमाणुः परमाणुरेव वर्गादिभावानां प्राधान्यविवक्षणात् सर्वजघन्यकालत्वादि । चउविहेत्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुःस्वभावः । अच्छेज्जत्ति छेद्यः शस्त्रादिना लतादिवत्, तन्निषेधादच्छेद्यः। अभेज्जत्ति भेद्यः सच्यादिना चर्मवत्, तनिषेधादभेद्यः । अडज्झेत्ति अदाह्योऽग्निना सूक्ष्मत्वात् । अत एवाग्राह्यो हस्तादिना। अणद्धेत्ति समसंख्यावयवाभावात् । अमज्झत्ति विषमसंख्यावयवाभावात् । अपएसेत्ति निरंशोऽवयवाभावात् । अविभाइमेत्ति अविभागेन निर्वत्तोऽविभागिम एकरूप इत्यर्थः विभाजयितुमशक्यो वेत्यर्थः। " इति भगवतीसूत्रस्य अभयदेवसूरिरचितायां वृत्तौ ॥ ६ इत्यादि वे प्र० ॥ ७ कोर्था प्र० ॥ ८ तद्वान् रस-गन्ध-स्पर्शवानित्यर्थः॥ ९ मतुवा प्र० ।। १० तदस्यास्त्यस्मिन्निति मतुम् । ५।२।९४. . . . . . * मतुष्प्रभृतयः सन्मात्र इति चेदतिप्रसंग: * मतुष्प्रभृतयः सन्मात्र इति चेदतिप्रसंगो भवति इहापि प्राप्नोति-व्रीहिरस्य यवोऽस्येति । तस्माद् भूमादिग्रहणं कर्तव्यम् । के पुनर्भूमादयः ? भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्ति विवक्षायां भवन्ति मतुपादयः॥ भुम्नि गोमान् यवमान् । निन्दायां ककुदावर्ती संखादकी। [अश्वस्य दशनः संखादक उच्यते ]। प्रशंसायां रूपवान् वर्णवान् । नित्ययोगे क्षीरिणो वृक्षाः कण्टकिनो वृक्षाः । अतिशायने उदरिणी कन्या । संसर्गे दण्डी छत्री। तत् तहि भूमादिग्रहणं कर्तव्यम् । न कर्तव्यम् कस्मान्न भवति-व्रीहिरस्य यवोऽस्येति । * उक्तं वा * किमुक्तम् ? अनभिधानादिति । इतिकरण: खल्वपि क्रियते ततश्चेद् विवक्षा। भूमादियुक्तस्यैव च विवक्षा । गोमान् यवमान, भूमादियुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद् यवो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy