________________
७९३
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् तद्यथा-भूमनि गोमान् यवमान् । निन्दायां ककुदावर्ती व्यादाय हासी। प्रशंसायां रूपवान् शीलवान् । नित्ययोगे क्षीरिणो वृक्षाः कण्टकिनो वृक्षाः। अतिशायने क्रोधी मानी। संसङ्गे दण्डी छत्री । अस्तित्वमात्रे यवमतीभिः प्रोक्षतीति। तत्रायम् 'वर्णवन्तः' इत्यादिनिर्देशे मतुप्प्रत्ययः संसङ्गे - स्मिन्नयदर्शने । स्याद्वाददर्शने तु द्रव्यपरमाण्वपेक्षो वा, यथा5 दव्वं पज्जववियुतं दध्वविजुत्ता य पज्जवा पत्थि ।
उप्पाद-ट्ठिति-भंगा हंदि दवियलक्खणं एयं ॥ [सम्मति० १११२] ५१२-२ इति परमार्थो जिनमते । किन्तु प्रत्येकनयव्याख्यानाद् भावमात्रं त्वनेन गृहीतम्।
::
:
EE इति दशमो भङ्गो नियमविधिनयः समाप्तः।
नास्ति । संखादकी ककुदावर्ती, निन्दायुक्तस्यैव सत्ता कथ्यते, न हि कश्चिन्न संखादकी। रूपवान् वर्णवान् प्रशंसायुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद् रूपं नास्ति । क्षीरिणो वृक्षाः, कण्टकिनो वृक्षा इति नित्ययुक्तस्यैव सत्ता कथ्यते, न हि कस्यचित क्षीरं नास्ति । उदरिणी कन्येति अतिशायनयक्तस्यैव सत्ता कथ्यते, न हि कस्यचिदुदरं नास्ति । दण्डी, छत्री, संसर्गयुक्तस्यैव सत्ता कथ्यते, न हि कस्यचिद् दण्डो नास्ति । यावतीभिः खल्वपि गोभिर्वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते, कस्यचिच्चतसृभिः कल्पन्ते कस्यचिच्छतेनापि न प्रकल्पन्ते । सन्मात्रे चर्षिदर्शनात्, सन्मात्रे च पुनः ऋषिदर्शयति मतुपम्--यवमतीभिरद्भिर्युपं प्रोक्षतीति ।"-इति पातञ्जलमहाभाष्ये ॥ १ भूमिति गोमान् यवमान् भा० । भूमान् गोमान् य० ।। २ अतिशायिनो य० ॥३प्रेक्षप्र०॥ ४ मत्प्रत्ययः य० । मत्तप्रत्ययः भा० ॥ ५ विउतं दध्वविउत्ता य पज्जवा पत्थि उप्पाय य० । “परस्परनिरपेक्ष चोभयनयप्रदर्शितं वस्तु प्रमाणाभावतो न संभवतीत्याह-दव्वं पज्जवविउयं दव्वविउत्ता य पज्जवा पत्थि। उप्पायलिइभंगा हंदि दवियलक्खणं एयं ॥ १।१२॥ द्रव्यं पर्यायवियुक्तं नास्ति मृत्पिण्ड-स्थास-कोश-कुसूलाद्यनुगतमृत्सामान्यप्रतीतेः । द्रव्यविरहिताश्च पर्याया न सन्ति अनुगतैकाकारमृत्सामान्यानुविद्धतया मृत्पिण्ड-स्थास-कोशकुशूलादीनां विशेषाणां प्रतिपत्तेः । अतो द्रव्यार्थिकाभिमतं वस्तु पर्यायाक्रान्तमेव, न तद्विविक्तम्, पर्यायाभिमतमपि द्रव्यार्थानुषक्तं न तद्विकलम् परस्परविविक्तयोः कदाचिदप्यप्रतिभासनात् । किंभूतं पुनर्द्रव्यमस्तीत्याह-उत्पादस्थितिभङ्गा यथाव्यावर्णितस्वरूपाः परस्पराविनिर्भागवर्तिनः, 'हंदि' इत्युपप्रदर्शने, द्रव्यलक्षणं द्रव्यास्तित्वव्यवस्थापको धर्मः, एतद् दृश्यताम्, यतः पूर्वोत्तरपर्यायपरित्यागोपादानात्मकैकान्वयप्रतिपत्तिस्तथाभूतद्रव्यसत्त्वं प्रतिपादयतीत्युत्पाद-व्ययध्रौव्यलक्षणं वस्त्वभ्युपगन्तव्यम् । एतच्च त्रितयं परस्परानुविद्धम्, अन्यतमाभावे तदितरयोरप्यभावात ।" इति अभयदेवसूरिरचितायां सन्मतिवृत्तौ पृ० ४१०॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org