________________
सद्गुरुभ्यो नमः
अथैकादशो नियमोभयारः। इदमशक्यं श्रोतुमपि यद् यत्तद् रूपादिभवनमेव भाव इति व्यवस्थाप्य वस्तुसंक्रान्तिप्रतिषेधि नोत्पयत्त्भाव इति वचनम् । अवश्यं हि तैः केनापि प्रकारेण भवितव्यं भावरूपेणा-5 भावरूपेण वा । तत्र चात्यन्तभवनेन यद् भवनं तद् व्यावर्तितम्, अत उत्पादविनाशेनैवैषां भवनमव्यावर्तितम्, तद्वयावर्तनेऽभावता तेषाम् । ननु तैर्यत् तद् भूयते स एव भाव इति भवतैवोक्तम् ।
ननु तैर्भूयतेऽनुत्पादित्वेनैव । न हि तैर्भूयतेऽनुत्पादविनाशित्वात् खपुष्पवत् वैधाण पृथिवी-शिवक-स्तूपकादिवत्, अकालत्वेऽकालत्वात्। उत्पादाद्यनभ्युपगमादकालत्वम् । 10
नयचक्रसम्यग्दर्शनाधिकारे प्रत्येकनयस्वरूपपरिज्ञानपूर्वकत्वान्नयचक्रज्ञानस्य अनन्तरनयदर्शने चापरितोषादुत्तरोत्थानमिति स एव सम्बन्धः, पूर्वस्य दूषणं स्वमतप्रक्रिया च सहोच्यते नियमोभयनयेऽस्मिन्नित्यत आह-इदमशक्य[म्] इत्यादि। इदं श्रोतुमप्यशक्यं कुतो वक्तुं स्ववचनादिविरोधात् ? कतमदशक्यम् ? यद् यत्तदित्यादि, यद् यस्मादित्यर्थः, यत्तदिति वचनमभिसम्बध्यते रूपादिभवनमेव भाव इति स्वमतं व्यवस्थाप्य वस्तुसङक्रान्तिप्रतिषेधि नोत्पत्त्यभाव इति ।
15 ___ कथं पुनरेतदशक्यम् ? इत्यत आह-अवश्य होत्यादि । तैरवश्यं हि रूपादिभिः केनापि प्रकारेण भवितव्यं भावरूपेणाभावरूपेण वा अत एव त्वद्वचनात् हिशब्दस्य वचन हेत्वर्थत्वात् । तदवधारयितुमाह-तत्र चेत्यादि, तयोश्च भावाभावयोरत्यन्तभवनेन यद् भवनं तद् व्यावर्तितं द्रव्यार्थिकमतमेषु पर्यवास्तिकनयेषु, अतो भवनव्यावर्तनाद् भावरूपेण भवनाभावात् परिशेषादुत्पादविनाशेनैवैषां रूपादीनां भवनमव्यावतं (तितम्) । किं कारणम् ? यस्मात् तद्वयावर्तनेऽभावता तेषां रूपादीना- 20 मुत्पाद-विनाशरूपेणापि भवने व्यावर्तिते खपुष्पवदभावता स्यात], तद्धि केनचिद्रूपेणाभवनादत्यन्तासत्, तथा मा भूदित्युत्पाद-विनाशरूपं भव॑नमिष्टं त्वयापीति तद्दीते-ननु तैर्यत्तद् भूयते स एव भाव ५१३-१ इति भवतैवोक्तं जन्मभङ्गभवनाभ्युपगमात् ।।
इतर आह-ननु तेर्भूयतेऽनुत्पादित्वेनैवेति मयोक्तत्वादयुक्तमिति। अत्रोच्यते-न तहि तैर्भूयते, अनुत्पादविनाशित्वात्, खपुष्पवत्, वैधर्येण पृथिवी-शिवक-स्तूपकादिवदुत्पाद- 25
१ भयेऽस्मि० य० ॥ २ पृ० ६६ पं० ९॥ ३ विनाशने चैषां भा० । विनाशने वैषां य० ॥ ४ भवनत्वया य० ॥ ५ तैर्यनुभूयते प्र० ॥ ३ -+-६ एतदन्तर्गतः पाठो य० प्रतौ नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org