________________
७९५
न्यायागमानुसारिणीवृत्त्यलकृतम्
[एकादशे नियमोभयारे
उत्पादविनाशावेव हि वस्तूनां भवनस्य बीजम्, रूपादय इव तन्त्वादिभवनबीजम्, तदभावे तदभावात् तद्भावे तद्भावात् । इतरथा हि अनुत्पादविनाशत्वादपर्यायत्वाद् निर्मूलत्वान्न स्याद् वस्तु वन्ध्यापुत्रवत् ।
अपि च प्रतिपक्षविनिर्मुक्तमेवानित्यत्वं वस्तुनः । तानि क्षणिकानीत्यवधार्यताम् । 5 यो हि भाव उत्पन्नः स नंष्टा चेद् नाशविघ्नः [कः] ? यदि हि उत्पन्नः सन् भावो
विनाशरूपभवनात्मकत्वात् । इतश्च न भूयते+-अकालत्वेऽकालत्वात, तावेव साधर्म्य-वैधर्म्यदृष्टान्तौ, नास्य कालोऽस्तीत्यकालः, अकालत्वे सति अकालत्वात्, कालस्याकालत्वात् कालवत् सत्त्वाशङ्का स्यात्, मा भूदिति 'अकालत्वे सति अकालत्वात्' इति विशेष्यते। त्वदुक्तिवैदुत्पादाद्यनभ्युपगमादकालत्वम्,
आदिग्रहणाद् विनाशानभ्युपगमात् । 10 कस्मात् ? उत्पादेत्यादि । यस्मादुत्पाद-विनाशावेव वस्तूनां रूपादीनां भवनस्य बीजम् । हिशब्दो हेत्वर्थे, उत्पाद-विनाशधर्मवस्तुभवनम्, तद्बोजत्वात् । किमिव ? रूपादय इव तन्त्वादिभवनबीजं तदभावे तदभावात् तद्भावे तैद्भावात्, रूपादिसमुदायो हि तन्तु-पटादयस्तदभावे न सन्ति तद्बीजत्वात् तद्भाव एव च भवन्ति एवं वस्त्वपि उत्पाद-विनाशबीजत्वात् तदात्मभवन
कमिति। 15 एवमनभ्युपगमे दोषः- इतरथा होत्यादि यावद् वन्ध्यापुत्रवदिति । अनुत्पादविनाशत्वादपर्यायम्, अपर्यायत्वान्निर्मूलम्, निर्मलत्वान्न स्यादिति क्रमेण हेतुहेतुमद्भावेन गताम्] । प्रत्येक वैते हेतवः । तस्मादुत्पाद-विनाशात्मना वस्तुना भवितव्यमनित्येनेति ।
अपि चेत्यादि । नानित्यसामान्यमात्रेण सन्तुष्यामः कालान्तरावस्थायिनां पृथिव्युदकरूपादीना५१३-२ मुत्पाद-विनाशदर्शनानुमितेनानित्यवस्तुप्रतिपक्षनित्यसंस्पर्शसम्बन्धिना, कालान्तरावस्थानस्यापि अनित्य__20 प्रतिपक्षत्वात्, किं तर्हि ? प्रतिपक्षविनिर्मुक्तमेवानित्यत्वं वस्तुनः । तानि रूपादीनि क्षणिकानीत्यव
धार्यताम, क्षणोऽस्यास्तीति क्षणिकः, परमनिरुद्धः कालः [क्षणः], स एवास्यास्ति न द्वितीयादिसमयान्तरावस्थायीनीति निश्चीयताम् ।
न्यायोऽप्यत्र-"यो हि भाव उत्पन्नः स "नंष्टा चेन्नाशविघ्नः [कः] ?। तद्वयाख्या-यदि होत्यादि । उत्पत्ति-विनाशावनन्तरसाधितौ, स उत्पन्नः सन भावो विनाशस्वभावश्चेत् तस्य विनाश१ भावेच य० ॥ २ तदुत्पा भा० । त्वदुत्पा य० ॥ ३ भवन इत्यत आरभ्य एव च इत्यन्त ** एतदन्तर्गत: पाठो भा० प्रतौ नास्ति ॥ ४ ४ तद्धावे य० ॥ ५ तद्भाववत् य० ।। ६ नाशा प्र०॥ ७ उत्पाद य० ॥ ८ मित्येनेति य० ॥ ९ सम्बन्धिन । भा० ॥ ५१० तुलना-पृ० ५२९-१। ११ कालः स एवस्या स्ति भा० । कालाक्षः स एवस्यास्ति य० ॥ १२ स्थायिनीति प्र० ॥ १३ तुलना-पृ०५२९-१॥ १४ तुलना-पृ० ५२८-२। "नंष्टा चेन्नाशविघ्नः को न चेन्नैव विनंक्ष्यति।" इति तत्त्वार्थसूत्रस्य सिद्धसेनीयवृत्तावपि उद्धृतोऽशः पृ० ३२९ ।। १५ सावितौ प्र०। (भावितौ ?) ॥ १६ मद्भावो प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org