SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ विनाशस्य निर्हेतुकत्वम्] द्वादशारं नयचक्रम् ७९६ विनाशस्वभावः तस्य को विनाशप्रतिबन्धी विघ्नो येनावतिष्ठत हसिष्ठमपि कालं सः? न चेन्नैव विनंक्ष्यति । अथ पुनरेवं नेष्यते कदाचिदपि स नैव विनंक्ष्यति पूर्ववत् । अस्ति विघ्नः-विनाशहेत्वसान्निध्यम्। कः कस्य विनाशहेतुः? यथा घटस्याश्माद्यभिघातो विनाशहेतुः, अग्निसंयोगः पार्थिवरूपादीनामपां च विनाशहेतुः। साध्यं विनाशहेतुत्वं त्वया, मया स्वयमेवेति। तत्र विशेषहेतुर्वाच्यः । तस्मिन् सति पश्चादग्रहणाद् घटादिविनाशे स स हेतुः। तुल्यं स्वयं विनाशेऽपि तथानुत्पत्तितोऽग्रहः। यथासंख्यनिर्देशा हि स्वयमेव पार्थिवघटरूपादयो घटाकारेणोत्पद्यमाना घट इत्याख्यां लभन्ते, ते पुनः विनष्टा उत्पत्तेरेव 10 धर्मण: सतः को विनाशप्रतिबन्धी विघ्नः येनावतिष्ठेत 'हसिष्ठमपि कालं सः, उत्पन्नमात्र एव विनाशं नानुभवेत्, अनन्तरासत्त्वे सति तत्स्व पावत्वाद् विनाशक्षणवत् ? न चेन्नैव विनक्ष्यति, अस्य भाष्यं यावत् पूर्ववदित्यनिष्टापादनसाधनमेवमनिच्छत इति गतार्थम् । ___कालान्तरावस्थाय्यनित्यवादी आह-अस्ति विनाशे विघ्नः। कोऽसौ ? विनाशहेत्वसान्निध्यम् । तेनैव व्याख्यापयितुकामः पृच्छति- कः कस्य विनाशहेतुर्यत्सन्निधाना-ऽसन्निधानाभ्यां विनाशा-ऽविनाशौ ? इति । स ब्रूयात्--यथा घटस्येत्यादि, अश्म-मुसलाद्यभिघातो घटविनाशहेतुः, 15 अग्निसंयोगः पार्थिवानां रूपादीनामपां च विनाशहेतुः, तत्सान्निध्ये विनाशोऽसान्निध्येऽवस्थानमिति । अत्रोच्यते--साध्यं विनाशहेतुत्वम् । कथं साध्यम् ? इति, त्वया साध्यं तेनाऽश्माद्यभिघातेन घटस्य विनाशोऽग्निसंयोगा[त्] पार्थिवरूपादीनामपां चेति, मया स्वयमेवेति, तत्रावयोः कतरस्य ५१४-१ वचस्तथ्यम् ? तस्मादन्यतरासिद्धत्वादहेतुः कथं निर्धार्यते 'हेतुरेव' इति "विशेषहेतुर्वाच्यः। इतर आह-अस्ति विशेषहेतुः, तस्मिन् सति पश्चादग्रहणात् तदसान्निध्ये ग्रहणात् 20 तत्सन्निधावग्रहणाद् घटादिविनाशे स स हेतुरिति निश्चीयते।। ___ अत्रोच्यते--इदमज्ञापकम्. यस्मात् स्वयं विनाशेऽपि अस्मत्पक्षे तुल्यमेवासति ग्रहणं तेषाम् । कस्मात् ? यस्मात् तथानुत्पत्तितोऽग्रहः, अभिघातादिसान्निध्यात् प्राक् तथोत्पत्तेर्ग्रहणम्, पश्चादग्रहणं तत्सान्निध्ये तथानुत्पत्तेः। कथं कृत्वा का भावना ? अत आह--यथासङख्यनिर्देशा हिपार्थिवघटरूपादयः, पृथिव्यां 25 १ सिष्ट भा० । द्विशिष्ट य० ।। २ तुलना पृ० ५२९-१॥ ३ तुलना पृ० ५२९-१॥ ४ अस्ममु प्र० ।। ५ घातो विनाश य० ।। ६ अस्ति संयोगः प्र० ।। ७ तुलना पृ० ५२९-१।। ८ 'स्माद्यभि भा० । स्मद्यभि' य० ॥ ९ स्वयमेवेतीति य० ॥ १० विनाशहेतु य० ॥ ११ पृ० ५२९-१॥ १२ तथा तथा भा० ॥ १३ यथासंख्या प्र० । तुलना-पृ० ५३०-१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy