________________
७९७
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [एकादशे नियमोभयारे विनाशकारणत्वात् । तत्राश्माद्यभिघातेनान्येषां रूपादीनामुत्पादो निरुध्यते । अन्ये रूपादयो न पुनस्तथोत्पन्नाः। तस्मात् तदानीं घटत्वेनाग्रहणम् । तेनाभिघातेन स न विनाशितः।
तथा पार्थिवा अपि रूपादयोऽग्निसम्बन्धसामर्थ्यात् तथा नोत्पद्यन्ते । तथाऽपामपि 5 अग्निसम्बन्धस्तत्सन्ततौ भूयस्तथोत्पत्तिनिरोधे हेतुः । उत्पन्नानां विनाशः स्वयमेव ।
स्वयं विनाशि घटादि, जातत्वात्, प्रदीपशिखावत्। तद्यथाजातिरेव हि भावानां विनाशे हेतुरिष्यते। यो जातश्च न च ध्वस्तो नश्येत् पश्चात् स केन च। [ ]
पञ्चवर्ण-षड्रस-द्विगन्धाः, अष्ट स्पर्शाः, शेषेषूदक-तेजो-वायुषु हीनतरा इति या या सङ्ख्या 10 यथासङख्यं यथासम्भवमित्यर्थः । रूपादय एव घटाकारेणोत्पद्यमाना घट इत्याख्यां लभन्ते समुदायविशेषात्, ते पुनः स्वयमेव विनष्टा उत्पत्तेरेव विनाशकारणत्वात्, तंत्राश्माद्यभिघातेन सन्ततिपतितानामन्येषां रूपादीनामुत्पादो निरुध्यते, तस्मादभिघातप्रत्ययवशादन्ये रूपादयो न पुनस्तथोत्पन्नास्तस्मात्
सन्ततिनिरोधात् तदानीमभिघातकाले घटत्वेन रूपाद्यग्रहणम्, तेनाभिघातेन स घटो न विनाशितः। ५१४-२ तथा पार्थिवा अपीत्यादि तेष्वपि रूपादिषु सैव भावना, अत्राग्निसम्बन्धसामर्थ्य मन्येषां तत्सन्ततौ 15 रूपादीनामुत्पित्सूनां निरोधकं न पूर्वेषां विनाशकम् । तँ थापामपि अग्निसम्बन्धस्तत्सतन्तौ भूयस्तथोत्पत्तिनिरो[धे] हेतुः, उत्पन्नानां विनाशः स्वयमेव भवति । अन्त्यानां त्वंपामतिमंत (सन्तत)त्वात् सन्तत्युत्पादनासामर्थ्यात् सर्वविनाश एवान्यासामपामनुत्पन्नत्वात् । एवं स्वयमेव विनाशो जातानां नान्येन केनचिद् विनाशितत्वादिति।
अत्राह-कथमिदमवगन्तव्यम्-दृश्यमानऽभिघातादौ विनाशहेतौ स्वयमेव विनष्टा घटादयो न 20 तु तेन हेतुना विनाशिता इति? "कोशपानेन प्रत्याय्यः स्वयं विनाश इति ।
एतदधुनानुमानेन प्रत्याय्यसे--स्वयं विनाशि घटादि, जातत्वात्, प्रदीपशिखावत्, एतदनुमानम् । साक्षी (क्षि) भूतोऽयमागमो[ऽपि] तदर्थसंवादी, तद्यथा-जातिरेव हि इत्यादि । तथा
१ तत्रास्माद्यभि प्र० । २ मुत्पादे निरुध्यते प्र० ॥ ३ तेन घटो य० ॥ ४ पार्थिवत्वा अपी' य० ॥ ५ मत्पत्तिस्ततां य०॥ ६ तथाणुमपि य० । तथापि भा०॥ ७ न्ततो भूयस्ततोत्पत्तिनिरोहेतुः प्र०।। ८ भवति अन्त्यानां त्वपामतिमतत्वात् य० । भवति मंतत्वात् भा०। ९एवमन्यासा य०॥ १० दृश्यतां टिपृ० ६२ पं० १२॥ ११ “जातिरेव हि भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो नश्यत् पश्चात् स केन च ॥” इति शोलाकाचार्यरचितायां सूत्रकृताङ्गवृत्तौ पृ० २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org