________________
क्षणिकत्वसाधनम् द्वादशारं नयचक्रम्
७९८ ततस्तत्रैवं प्रतिक्षणनश्वरतायां रूपादीनामभूतार्थतथात्वादसत्त्वं समुदायवत् ।
यथा हि समुदायस्य तथाभूतदेशाभेदभवनाभावादसत्त्वं तथा रूपादेरप्यसत्त्वं तथाभूतकालाभेदभवनाभावाद् रूपादिरूपकाला (ल) भेदादित्यर्थः। यदि तद् यथा रूपरूपं रूपं तथा रूपं तद्रूपं स्याद् द्वितीयक्षणादिषु कदाचित् ततस्तदिति कृत्वा रूपमुच्येत । इदं तु तदभावपरम्परापतितमसदेव समुदायवत् । यथा समुदायः स्वरूपेणासन्नेव 5 रूपादीनामेवं रूपमपि पृथक्तत्त्वानवस्थितार्थत्वात् ।
जहुक्खित्तंमि 'लेटुंमि उप्पादे (डे)अत्थि कारणं ।
पडणे कारणं गैत्थि अण्णत्थुक्खेवकारणात् [ इति। तस्मात् प्रतिक्षणमुत्पत्तेरेव विनाशित्वं सिद्धं रूपादीनाम् ।
ततः किम् ? ततस्तत्रैवं प्रतिक्षणनश्वरतायां सत्यां रूपादीनामभूततथार्थत्वम्, अभूतार्थ- 10 तथात्वात् समुदायवदेवासत्त्वमर्थस्य रूपादेस्तेन प्रकारेण देशाभेदभवनात्मनाऽभावस्तदभूतमर्थत[था]त्वं प्रतिक्षणनश्वरताया उक्तत्वात् । ततश्चाऽभूतार्थतथात्वादसत्त्वम्, किमिव ? समुदायवत् ।
तद्वयाख्या-यथा हि समुदायस्येत्यादि । रूपादित्वेन सन्तो रूपादयो 'देशाभेदेन घटादि-५१५-१ समुदायात्मना न सन्ति, तथाभूतदेशाभेदभवनाभावात् समुदायस्य संवृतिसतः परमार्थतोऽसत्त्वात् । तथा रूपादेरपि रूपादिपरमार्थतया भवतोऽपि एकस्मिन् क्षणे रूपादिपरमार्थोऽस्त्येव, स तु क्षणान्तरं 15 न प्रतीक्षते कालतो भेदात् पूर्वक्षणरूपादुत्तरक्षणरूपमन्यदेव, एवं रसादयोऽपि, अतः कालाभेदभवनाभावाद् देशाभेदभवनाभावसमुदायवन्न सन्ति । तस्य स्फुटीकरणार्थमाह-रूपादिरूपकाला(ल)भेदादित्यर्थ इति । तस्योत्तरकालाप्रतीक्षित्वात् 'तदेवेदम्' इत्यशक्यं वक्तुं रूपम्, ततोऽत्यन्तमन्यत्वात्, रसादिवत् । तस्यान्यत्वावीतेन समर्थयितुमाह कृत्वा कल्पनया इत्थं स्याद् यदि स्यादिति, तद्यथायदि तद् यथा रूपरूपं रूपं रसादिव्यतिरिक्तं रूपात्मकमेव रूपं तत्त्वे तेनैवात्मना रूपेण तथा 20 रूपं तद्रूपं यदि स्याद् द्वितीयक्षणादिषु कदाचित्, न कदाचिदपि भवतीत्यर्थः, यदि स्यात् ततस्तदिति कृत्वा रूपमुच्येत, न तु भवति प्रतिक्षणनश्वरत्वात्, कि तहि ? इदं तु तदभाव
१ लेडमि य० । तुलना पृ० ५२९-२। “यतोप्युक्तम्---'यथ उक्खित्ते लोढम्मि उक्खेवे अत्थि कारणं । पड़ने कारणं णत्थि अण्णं उक्खेवकारणात् ॥' इति । यथाप्यनक्षेपः (प्युत्क्षेपः?) पतनकारणं नान्यत् एवमिहापि जातिमेव कारणत्वेन विनाशस्य वर्णयामो नान्यदिति नास्त्यहेतुकता विनाशस्य जातिहेतुकत्वाच्चास्योद्गमनमेव [विनाशस्य ] हेतुरिति कृत्वा एषापि गाथा सुनीता भवति-एविमे संखता धम्माः संभवन्ति सकारणाः । स भाव एव धम्माणां यं विभोंति समुद्गताः ॥"-इति चन्द्रकीतिरचितायां मध्यमकवृत्तौ पृ० २२२-२२३ ॥ २ पठणे प्र०॥ ३ नत्थि अण्णक्खुक्खेका० य० ॥ ४ देशभेदेन प्र० ॥ ५ प्रतीक्षितत्वात् य० ॥ ६ माधीतेन प्र० । दृश्यतां पृ० ३१४ टि०२॥ ७ प्रतिपक्षनश्व प्र०॥ ८ तुलना ५१६-२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org