________________
७९९
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [एकादशे नियमोभयारे एवं नियमो नियमितोऽसत्त्वेन विशेषः, तत् किमभाव एव, न, अभावार्थस्तु। यत् तत् प्रतिक्षणमभवनं तस्य तत्तु भवनमपि अत्यन्ताभावविपरीतवृत्ति कथमनर्थतायां स्यात् । न तत् क्षणे क्षणे न भवेत्, अत्यन्ताभावत्वात्, खपुष्पवत् ।
ननु स नित्यवादवत् भवनव्यपदेशः सत्त्वे घटते । अन्यथा हि कुतोऽस्य 5 भवनलक्षणालक्ष्यस्योपाख्या ?
अभावो वार्थोऽस्येति 'अस्य'शब्दनिर्देश्योऽन्योऽर्थः सन् सम्बध्यते अभावस्याश्रयभूतत्वात्, इतरथा निराश्रयो प्रागभावप्रध्वंसाभावौ न स्याताम् । न हि भावमनाश्रित्य
परम्परापतितम्, 'यद् रूपं भवति तत् तस्मिन्नेव क्षणे न भवति, पुनरपि क्षणान्तरे भवदेव न भवति,
पुनरपि न भवति' इत्येवमभावपरम्परयाऽऽघ्रातत्वादसदेव समुदायवत्। 10 उक्तस्फुटीक्रियार्थमुपसंहृत्य साधनमाह-यथा समुदायः स्वरूपेणासन्नेव रूपादीनामिति ५१५-२ दृष्टान्तः, एवं रूपमपीति साध्यनिर्देशः 'असन्नेव' इति वर्तनात् । पृथक्तत्त्वानवस्थितार्थत्वादिति हेतुः प्रतिक्षणवृत्तित्वात् पृथक्तत्त्वानवस्थितार्थत्वम् । अतो रूपं स्वरूपासत् ।
एवं नियमो नियमितोऽसत्त्वेन विशेषो रूपादिः । अथ कि विशेषस्यासत्त्वेन नियम एव तत् किमभाव एव ? नेत्युच्यते, अभावार्थस्तु, अभावश्चासावर्थश्च भावश्चेत्यर्थः। कथम् ? यत् तत 15 प्रतिक्षणमभवनं तस्य रूपादिवस्तुनस्तत्तु भवनमपि क्षणे क्षणे वृत्तं खपुष्पाभावाद्यत्यन्ताभावविपरीतवृत्ति सत् कथमनर्थतायाम् अवस्तुतायां स्यात् ? किं पुनः स्यात् ? इत्थं स्यात्-नास्ति, न तत् क्षणे क्षणे न भवेत्, अत्यन्ताभावत्वात्, खपुष्पवत्, अनिष्टं चैतत् 'प्रतिक्षणं न भवति न भवति, इति विशेषाभ्युपगमादित्यतः सोऽभावः सन्नर्थो वस्तु चेत्यर्थः खं पुष्पाद्यत्यन्ताभावविपरीतवृत्तित्वात् ।
नन स "इत्यादि तस्य भवनाघ्रातत्वं दर्शयति प्रतिक्षणमत्यन्तवि[ल]क्षणवादे + नित्यवाद 20 इवेति नित्यवादवत्, यथा साङ्ख्यादिनित्यवादे । रूपं रूपमेव रूपमेवैकं भवति तथेहापि 'तद्रूपमेव
रूपमेव' इत्यादि 'भवति' इति भवनव्यपदेशः सत्त्वे घटते, अन्यथा हि कुतोऽस्य तस्यात्यन्तभेदस्यात्य॑न्तान्व[य]रहितस्य भवति'इति भवनेन लक्षणेनालक्ष्यस्य उपाख्या? दूरत एव न युक्ता भाव इत्युपाख्या।
अभावो वार्थोऽस्येति बहुव्रीहिसमासो वा, 'अभावोऽर्थोऽस्य'इति 'अस्य'शब्दनिर्देश्योऽ25 न्योऽर्थः सन्नसतः सम्बध्यते बहिरर्थत्वाद् बहुव्रीहेः। कस्मात् ? अभावस्याश्रयभूतत्वात् भाव एव
१ रूपरूपस्वरूपासत् य० । रूपरूपासत् भा० । (रूपं रूपस्वरूपासत् ? रूपरूपं स्वरूपासत् ? ) ॥ २ एतत् य० ॥ ३ त्तत्तु भा० । तत्तु य० ॥ ४ खपुष्पदात्यन्ता य० ।। ५.. एतदन्तर्गतः पाठो भा० प्रती नास्ति ।। ६ विक्षणादे य०॥ ७+ + एतदन्तर्गत: पाठो य० प्रती नास्ति ॥ ८ त्यन्तात्वरहितस्य भा०। (त्यन्तसत्त्वरहितस्य? )॥ ९ लक्षस्य भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org