________________
क्षणिकत्वसाधनम् ]
द्वादशारं नयचक्रम्
८००
प्रागभावप्रध्वंसाभावौ भवितुमत्सहेते। तदुपपदन वा तदर्थ इति न भावमन्तरेणोत्सहते। ननु रूपादिभावोऽर्थः क्षणिकतायां सत्यामपि नाभावमन्तरेण नोत्सहते भवितुम् । न चाभावो भवितुमुत्सहते, ननुपपदत्वात्, अब्राह्मणवत् ।।
नन्वेवं कथमुत्पन्ने पुत्र-घटादावर्थे आश्वासः, विनष्टे चानाश्वासः? नन्वविषय एवायं व्यवहारः, वस्तुनि क्षणिकेऽस्यासम्भवात्, उक्तवत् । एवमेव च वैराग्यभावना 5 घटते, तदर्थश्चायमारम्भः । संवृत्या व्यवहारस्तु सन्तानविषयत्वात् । सूक्ष्मोऽनुमेयो महतो[त्पादेनोत्पादो विनाशेन विनाशः । महोत्पादः सूक्ष्मोत्पादः इति, भङ्गोऽप्येवम् । महता (त्ता) सन्तान उत्पादविनाशयोः, सूक्ष्मता तत्प्रवृत्तेः । महत्युत्पाद आश्वासो विनाशेऽनाश्वासः । इतरयोरनुमेयता । ह्याश्रयो भवितुमर्हति एकक्षणविज्ञानवद् रूपादिसच (द) सद्विचारस्य । इतरथा निराश्रयौ प्रागभाव- 10 प्रध्वंसाभावौ न स्याताम्, इष्टौ च तौ न हि भावमनाश्रित्य प्रागभाव-प्रध्वंसाभावौ ५१६-१ भवितुमुत्सहेते, असद्विशेषत्वादत्यन्ताभाववैलक्षण्यात् । स चाश्रयोऽर्थ एव तयोः, पूर्वमसद्रूपमुत्पत्त्यवस्थायां सत् पैश्चात्तु असदित्युच्यमानत्वात् ।
तदुपपदना वा तदर्थ इति न भावमन्तरेणोत्सहते 'अभावः, इति भावोपपदनप्रयोगः प्रतिषेधवाचित्वात् सिद्धार्थ एव नासिद्धार्थविषयः । ननु रूपादिभावोऽर्थः क्षणिकतायां सत्यामपि 15 रूपादिरों भावो नाभावमन्तरेण नोत्सहते उत्सहत एव भवितुम् । न चाभावो भवितुमुत्सहते, नापपदत्वात्, अब्राह्मणवत्, यथा ब्राह्मणादन्यस्य 'अब्राह्मणः' इति निर्देशस्तथा रूपादेर्भावादन्यस्य 'अभावः' इति निर्देशो युक्तः सत्यामेव क्षणिकतायाम् 'न भवति' इत्यभावानुविद्धो भाव एव भवतीति भावाद्रूपादेरित्यसत एवार्थत्वम् ।
___ आह-नन्वेवमित्यादि । क्षणिकत्वादसत्त्वे कथमुत्पन्ने पुत्रादौ घटादौ चार्थे 'भूतम्' इत्याश्वासोऽ- 20 नेन मया कार्य कार्य, दग्ध-मृत-प्रध्वस्तेषु चानाश्वासः ‘गतं कार्यम्' इति ? एष व्यवहारो ५नोपपद्येत, अविषयत्वात् । सविषयत्वे वास्य व्यवहारस्य पुत्रादेरक्षणिकत्वे युक्त आश्वासः कालान्तरविनष्टत्वेऽनाश्वासश्चेति। अत्रोच्यते-नन्वविषय एवायं व्यवहारः, वस्तुनि क्षणिकेऽस्यासम्भवात्, उक्तवत्, 'यथा तथाभूतदेशाभेदभवनाभावाद् रूपादिसमुदयोऽभावस्तथा तथाभूतकालाभेदभवनाभावात् तदभाव-तदभावपरम्परापतितमेव रूपाद्यपि' इत्युक्तन्यायेन रूपाद्यसत्त्वे कुतोऽवतार 25 आश्वासा-ऽनाश्वासव्यवहारस्य ? एवमेव च वैराग्यभावना शरीर-स्वजन-द्रव्यादिनैर्मम्यात् ५१६-२ क्वचिदप्यनाश्वासात् संसारहेतुरागादिप्रातिकूल्येन घटते, तदर्थश्चायमारम्भ इति गुणोपचयः क्षणिकभावे।
१ एवत्तयोः भा०। एतयोः य० ।। २ पश्चाच्च सदि य० ॥ ३ रथो प्र०॥ ४ नुचित्वो भा० । 'नुचितो य०॥ ५ नापद्यत प्र०॥ ६ दृश्यतां पृ० ७९८ पं०३ ॥ ७ आश्वासनाश्वास प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org