SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ८०१ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [एकादशे नियमोभयारे न तहि सूक्ष्मौ स्त एव अकारणत्वात् खपुष्पवदुत्पादविनाशौ । सूक्ष्मोत्पादभङ्गयोरकारणत्वमसिद्धं परस्परकारणत्वात् । जातिविनाशस्य कारणं जातेविनाशः, तयोर्युगपद्भावात्, यतः नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः ॥ [ ] एवमेव च सन्तानसिद्धिः। अन्यथा न कारणं न क्रिया । क्षणिकाः सर्वसंस्कारा अस्थितानां कुतः क्रिया। भूतिर्येषां (पैषा? ) क्रिया सैव कारकं सैव चोच्यते ॥[ ] यच्च व्यवहाराविषयत्वमुक्तं तन्न भवति, यस्मात् स युज्यते संवृत्या व्यवहारस्तु सन्तानविषयत्वात्। तद्विषयनिर्धारणार्थमुत्पाद-विनाशौ विकल्पयति-सूक्ष्मोऽनुमेयो महतोत्पादेनो10 त्पादो विनाशेन विनाश इति, द्वयोः प्रत्येकं द्वैविध्याच्चातुर्विध्यम्, तद्दर्शयति-महोत्पादः सूक्ष्मोत्पाद इति, भङ्गोऽप्येवमित्यतिदेशेन च तद्विवेकप्रदर्शनम् महता (त्ता) सन्तान उत्पाद-विनाशयोः सक्ष्मता तत्प्रवृत्तः, तयोर्महोत्पाद-भङ्गयोः प्रवृत्तिदर्शनाद् बुभुक्षा-तृप्त्योरिव । तत्र सन्तानस्य पुत्रघटादेर्महत्युत्पादे भवत्याश्वासो विनाशेऽनाश्वासः, इतरयोः सूक्ष्मोत्पाद-भङ्गयोरुच्छ्वास'निःश्वासानुमितभ्रान्ति-विश्रान्त्योरिवानुमेयता। 15 इतर आह-न तहि सूक्ष्मौ स्त एव अकारणत्वात् खपुष्पवदुत्पादविनाशाविति । सन्तानगतावेव यौ तौ नाशोत्पादौ स्तः, सकारणत्वात्, चक्रस्थघटस्येवोत्पाद आहतघटस्येव विनाश इति । ____ अत्रोच्यते-सूक्ष्मोत्पाद-भङ्गयोरकारणत्वमसिद्धं परस्परकारणत्वात् । तद्विवृणोति जातिविनाशस्य कारणं जातेविनाशः, तयोर्युगपद्भावात् । किमिव ? इत्यत आह-यतो ५१७-१ नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः, यथा तुलाया एकोऽन्तो नमति उन्नमति अपर 20 एकस्मिन्नेव क्षणे तद्वद् रूपोत्पत्ति-रूपान्तरविनाशाविति। एवमेव च सन्तानसिद्धिः युगपदुत्पाद*विनाशे रूपनैरन्तर्यात् सन्ततम् अनवरतं भवनात्, अन्यथा उक्तन्यायादन्यथा न कारणं सर्वथा विनाशोत्पादयोर[न]वस्थाने न क्रिया कर्तुर्भवितुरभावात् । एतदर्थसंवादि ज्ञापकमाह-क्षणिकाः सर्वसंस्कारा इति श्लोकः, उत्पत्तेः सकारणत्वात् प्रत्ययजन्मानः संस्काराः । क्षणमात्रावस्थायिनां द्वितीयं क्षणमस्थितानां कुतः क्रिया तेषाम् ? का तहि 25 क्रिया लोके परिगृहीता 'क्रियते घट:' इति ? किं कारकं करोति कटं कुम्भकारः' इत्यादि ? अत्रोच्यते-भूतिर्येषां जन्मैव क्रिया, सैव च कारकम् आत्मनैवात्मानं "निवर्तयतीति जन्मैव विनाशकारणमित्युक्तम् । १ महतोत्पादो विनाश इति प्र० ॥ २ निश्वास प्र०॥ ३ मृणोति भा० । सृणोति य० ॥ ४ विनाश य० ।। ५ भवान्यथा य०॥ ६ ज्ञापनमाह य०॥ ७ द्वितीयक्षण य०॥ ८ मवस्थितानां प्र०॥ ९ कि वारकम प्र० । 'किं वा कारकम्' इत्यपि पाठोत्र भवेत् ॥ १० निर्वतयतीति जन्मवं भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy