SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ क्षणिकत्वसाधनम्] द्वादशारं नयचक्रम् . ८०२ अन्यदन्यदेव हि रूपाद्युत्पद्यमानं दृश्यते प्रत्यक्षत एव तद्यथा वहतोवोदके। अथ सन्तानवत् सूक्ष्मोत्पादविनाशयोरप्यन्तरे वस्तु रूपादि दृश्येत । सन्तानो वावस्थितो न दृश्येत स्वोत्पादविनाशयोरन्तरे, सूक्ष्मोत्पादविनाशवत् । न हि दृष्टेऽनुपपन्नं नाम । तथाहियद्येकस्मिन् क्षणे जातम् ........। अन्ते क्षयदर्शनादादौ क्षयोऽनुमीयते प्रदीपशिखावत् । , अथवा नायमों युक्तिसाध्यः प्रत्यक्षत्वात्, अन्यदन्यदेव हि रूपादि उत्पद्यमानं दृश्यते प्रत्यक्षत एव, तद्यथा-वहतीवोदके, यथा 'स्रोतसि नद्यादीनां वैहदुदकमन्यदन्यदेवाऽऽगच्छति गतं तु गतमेव, अथ च मन्दबुद्धेन्तिस्य सन्तानेऽनवरते' स्रोतसि तदेव' इति मिथ्याप्रत्यय उपजायते 10 तथा सर्वरूपादिषु। अत्राह-अथ सन्तानवदित्यादि। यथा सन्तानोऽवस्थितो दृश्यते स्वोत्पाद-विनाशयोरन्तरे तथा सूक्ष्मोत्पाद-विनाशयोरप्यन्तरे वस्तु रूपादि दृश्येत । सूक्ष्मोत्पाद-विनाशौ स्वान्तरेऽप्युपलभ्यमानस्वव्यपदेशहेतुको स्यातामुत्पादविनाशत्वात् सन्तानोत्पादविनाशवत् । सन्तानगतौ वोत्पाद-विनाशौ ५१७- २ स्वान्तरानुपलभ्यस्वव्यपदेशहेतुको स्यातामुत्पाद-विनाशत्वात् सूक्ष्मोत्पाद-विनाशवत्। 15 ___ अनोच्यते-न हि दृष्टेऽनुपपन्नं नाम। उक्तं हि बुद्धिमान्द्यादुदकस्रोतोवदवस्थानदर्शनमसतः सन्तानस्य । प्रत्यक्षं दृश्यमानत्वादेव वा न चोद्यम्, न हि प्रमाणज्येष्ठं प्रत्यक्षमतिक्रम्योपपन्नमिति प्रत्यक्षविरुद्ध प्रतिपत्तुं योग्यम्, प्रत्यक्षस्य प्रमाणान्तरेणाबाध्यत्वात् । तथाहीत्येतस्यार्थस्य संवाद्युपपत्त्यन्तरवाचि ज्ञापकमाह, योकस्मिन् क्षणे जातमिति श्लोकः, यद्युत्पत्तिरेव विनाशकारणं न स्यात् द्वितीयक्षणाद्यवस्थानवत् सदावस्थानमेव स्यात् विनाशहेत्वभावादित्युक्तम्, न चैतदेवं भवति । 20 तस्माज्जन्मैव विनाशहेतुरात्मनः, तद्विनाश एव चोत्तरोत्पत्तिकारणमिति स्थितमेतत् क्षणिकं रूपादि बाह्यं वस्त्विति। एताभ्यामेव महोत्पाद-भङ्गाभ्यां सन्तानजाभ्यां प्रतिक्षणं सूक्ष्मोत्पाद-भङ्गावनुमेयौ, तद्यथाअन्ते क्षयदर्शनादादौ क्षयोऽनुमीयते प्रदीपशिखावत्, यथा प्रदीपशिखा उत्पत्तिकालादारभ्य क्षीयमाणाऽन्ते निवातेऽपि सर्वथा क्षीयते, सा च क्षणान्तरावस्थाने सति न क्षीयते कदाचिदित्युक्तम्, 25 क्षीयते तु सर्वा । तस्मादादित आरभ्य "उपरतेत्यनुमीयते प्रत्यक्षैव वा। तथा घटादिरपि जन्मनः १ श्रोतसि य० ॥ २ बदबुहक' य० । बददुक भा० ॥ ३ श्रोतसि य० ॥ ४ 'लभ्यव्यप य० । 'लम्वव्यप भा० ॥ ५ दृष्टेमुपपन्नं भा० । दृष्टेउपपन्नं य० ॥ ६ पृ० ८०२ पं० १०॥ ७ श्रोतों प्र०॥ ८ संवादाचुप प्र०॥ ९ तस्माचन्मयव य० ॥ १० क्षणिकं य० ॥ ११ उपरतोत्य' य० । उपरतोन्य भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy