________________
८०३
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[एकादशे नियमोभयारे अयं च नयः 'प्रतिक्षणमन्यो भवन्नेव भवति, इत्यभ्युपगच्छति, अतो नियमोभयं वाञ्छति । निक्षेपचतुष्टये च भावनिक्षेपविकल्पमनागमतो भावमुपयोगं प्रतिपद्यते, उपयोगैवम्भूतस्य नयस्यैकदेशत्वात् । पर्यायमूलनयभेदश्चैषः। समन्तादयते पर्ययत इति पर्यायः । स एवास्त्यर्थोऽस्येति पर्यायास्तिकः । इन्द्रानुभवनकाले तदुपयोगकाल एव वेन्द्रः, 5 अन्यदाऽनिन्द्रः, तद्भावस्यैव तद्भूतत्वात् । अत्र च प्रतिक्षणातिकामित्वाद् वस्तुनो बुद्धिस्थो योऽर्थः स शब्दार्थः।
५१८-१ प्रभृति क्षीयते, अन्ते क्षयदर्शनादिति । तथा बुद्धिरपि क्षणिकेति उक्तं वस्तु ।
___नयमतेनाऽधुना योज्यते-अयं चेत्यादि । अयं च नयः 'प्रतिक्षणमन्यो भवन्नेव भवति' इत्यभ्युपगच्छति अतो नियतं विदधाति नियमयति चेति नियमोभयं वाञ्छति । निक्षेपचतुष्टये च भावनिक्षेप10 विकल्पमनागमतो भावमुपयोगं क्षायोपशमिकं भावमौदयिक पारिणामिकं वा भावमुपयोगसाद्भुतं
विज्ञानलक्षितं बाह्यं रूपादि प्रतिपद्यते । उपयोगैवम्भूतस्य नयस्यैकदेशत्वात्, आगमानुपयोगैवम्भूतादेविशिष्यते।
वंजणमत्थम (त) दुभयमेवंभूतो विसेसे [ति] । [आव० नि० ७५८] त्ति सामान्यलक्षणात् । पर्यायमूलनयभेदश्चैषः समन्तादयते पर्ययत इति पर्यायाक्षरार्थत्वात् । स 15 एवास्त्युपयोगसीद्भूतोऽर्थोऽस्येति पर्यायास्तिकः ।
१ अयं नयः य० २ गसाबूतं भा० । गमद्भुतं य० ॥ ३ आगमोऽनुपयोगै य० । आगपयोगै भा० । तुलनापृ० २४ पं०६, ५१८-२॥ ४ "इदानीमेवंभूतमाह-वंजणअत्थतदुभए एवंभूओ विसेसेइ ॥ ७५८।। व्यज्यतेऽनेन व्यनक्तीति व्यञ्जनं शब्दः, अर्थस्तु तद्गोचरः, तच्च तदुभयं च तदुभयं शब्दार्थलक्षणमेवंभूतो नयो विशेषयति । इदमत्र हृदयम-शब्दमर्थन विशेषयति अर्थ च शब्देन । तथा चाह भाष्यकृत-वंजणमत्थेणऽत्थं च वंजणेणोभयं विसेसेइ । जह घडसइं चेटावया तहा तं पि तेणेव [विशेषा० २२५२], अस्या गाथाया लेशतो व्याख्या-व्यञ्जनं शब्दमर्थन विशेषयति अर्थवशाद् नैयत्ये व्यवस्थापयतीत्यर्थः, यथा स एव तत्त्वतो घटशब्दो यश्चेष्टावन्तमर्थं प्रतिनियतं व्यवस्थापयतीति भावः । यथा वा घटशब्दवाच्यत्वेन प्रसिद्धा चेष्टा सा घटनाद् घट इति व्युत्पत्त्यर्थपरिभावनांबलाद् योषिदादिमस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा द्रष्टव्या, न तु स्थानभरणक्रियारूपा। एवमुभयम्-शब्देनार्थमर्थेन शब्दं विशेषयति, अत्रैव चोदाहरणमाह-जह घडसद्दमित्यादि, यथा घटशब्दं चेष्टावतार्थेन नियमयति स एव तत्त्वतो घटशब्दो यश्चेष्टावन्तमर्थं प्रतिपादयति, तथा तमप्यर्थं तेनैव शब्देन नियमयति यथा घटशब्दवाच्या चेष्टा घटनाद् घट इति व्युत्पत्तिबलेन योषिदादिमस्तकारूढस्य घटस्य जलाहरणक्रियारूपा द्रष्टव्येति ।......एवंभूतशब्दव्युत्पत्तिश्चैवम्एवंशब्दः प्रकारवचनः, एवं यथा व्युत्पादितस्तं प्रकारं भूतः प्राप्त एवंभूतः शब्दः, तत्समर्थनप्रधानो नयोऽप्येवंभूत उपचारात्, एवंभूतशब्दसमर्थना चास्य प्रागेवोपदर्शिता यथा यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव स्वरूपतो वर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रैति, न शेषकालम् यथोदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावान् घटो घटशब्दवाच्यः, न शेषः, घटशब्दप्रवृत्तिनिमित्तशून्यत्वात् पटादिवत्, तथा घटशब्दोऽपि तत्त्वतः स एव द्रष्टव्यो यश्चेष्टावन्तमर्थं प्रतिपादयति, न शेषः, शेषस्य स्वाभिधेयार्थशन्यत्वादिति ।" इति मलयगिरिरचितायाम् आवश्यकनियुक्तिवृत्तौ पृ० ३७७-३७८ ॥ ६ विशेषावश्यकभाष्ये २१८५ तमेयं गाथा । ७ पर्ययमूल भा०। ८ रार्थात् भा० ॥ ९ सद्भू य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org