________________
शब्दार्थादिवर्णनम् ]
द्वादशारं नयचक्रम् ।
८.४
८०४
यो वार्थो बुद्धिविषयो बाहयवस्तुनिबन्धनः ।' स बाहयं वस्त्विति ज्ञातः शब्दार्थः कैश्चिदिष्यते ॥ [वाक्यप. २११३३] सन्तानवृत्तश्च क्रमो वाक्यार्थः ।
तदुदाहरणम्---इन्द्रेत्यादि । इन्द्रोऽनिन्द्रश्चन्द्रः, इदि परमैश्वर्ये [पा० धा० ६३], पारमैश्वर्यानुभवनकाल एवेन्द्रोऽन्यदाऽनिन्द्रः । इन्द्रोपयोगकाल एव वोपयोगेन्द्रः, तत्क्षणानन्तरमनिन्द्रस्तदुपरमात् । । पुरन्दरादित्वस्य त्वनवकाश एव क्षणिकत्वादुपयोगस्य च तदर्थस्य च । तथा पूरणकाले तदुपयोगे वा पुरन्दरोऽपुरन्दरोऽन्यदा । कस्मात् ? तद्भावस्यैव तद्भूतत्वात्, स एव भाव उपयोगीभूतः पुरन्दराद्यन्यतमपर्यायस्तत्क्षण एव च नान्यदेति भावितार्थम् ।
___ शब्दार्थः कोऽत्र ? इत्यत्रोच्यते--अत्र च प्रतिक्षणातिक(का)मित्वाद् वस्तुनो बुद्धिस्थो ५१८-२ योऽर्थः स शब्दार्थः, क्षणे क्षणेऽन्यदेव वस्तूत्पद्योत्पद्याऽतिकामदपि बुद्धौ तिष्ठति, यस्तु क्षणो बुद्धिस्थ : 10 सोऽर्थः शब्दस्य 'रूपं रसो गन्धः' इत्यादि। एतत्संवाद्यागमान्तरं ज्ञापकमाह नयवादानां जैनागमप्रभवत्वात-- यो वाऽर्थो बद्धिविषय इत्यादि व्याख्यातार्थानुसारित्वान्न व्याख्यायते। कैश्चिदिष्यते इति अस्याऽनागमोपयोगैवम्भूतस्य मतमित्यर्थः ।
वाक्यार्थस्तहि कः? उच्यते-सन्तानवृत्तश्च क्रमो वाक्यार्थः, विज्ञानसन्ताने रूपादिबाह्यार्थसन्ताने च य उत्पत्ति-विनाशक्रमः स वाक्यार्थः वाक्यवर्णपदादिशब्दानामानुपर्योच्चारणं प्रतिस्वं 15 जन्म-निरोधानुग्रहक्रमः ।
१ इति पर प्र०॥ २ "अथवा बुद्धयुपारूढ एव शब्दस्यार्थो न बाह्य इति दशमं पक्षं दर्शयितुमाह-यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः। स बाह्यं वस्त्विति ज्ञातः शब्दार्थः कैश्चिविष्यते ॥ २११३३ । शब्दस्य बुद्धयुपारूढस्य वैकल्पिकस्य यो बुद्धयुपारूढो बाह्यवस्तुनिबन्धनः बाह्यं वस्तु विकल्पजननद्वारेण निबन्धनं यस्य स तथाभूतः स च वैकल्पिकोऽर्यो भ्रमवशाद् दृश्य विकल्पै (ल्प्य ? )काकारेण अबहीरूपोऽपि बहीरूपतयाध्यस्तोऽध्यस्तमेव वस्त्ववगच्छामि शब्दादिति शब्दनिमित्तमिति शब्दार्थ इष्यते।" इति वाक्यपदीय स्य पुण्यराजरचितायां टीकायाम् । “बुद्धिविषयः इति बुद्धौ विपरिवर्तमानः, बुद्धिस्थ इति यावत् । बाह्यवस्तुनिबन्धन इति सदसद् बाह्यं वस्तु निबन्धनमक्षरचिह्नस्थानीयं स्वरूपमुपदर्शयितुं प्रक्रम्यते यस्य स बाह्यवस्तुनिबन्धन: । बाह्यं वस्त्विति ज्ञातः इति बुद्धिरूपत्वेनाविर्भावितो बाह्यतयाध्यवसित इत्यर्थः । तथाहि-यावद् बुद्धिरूपमर्थेष्वप्रत्यस्तं बुद्धिरूपमेवेति तत्त्वभावनया गृह्यते तावत् तस्य शब्दार्थत्वं नावसीयते तत्र क्रियाविशेषसम्बन्धाभावात्, न हि गामानय दधि खादेत्यादिका: क्रियास्तादृशि बुद्धिरूपे सम्भवन्ति । क्रियायोगसम्भवी चार्थः शब्दरभिधीयते । अतो बुद्धिरूपतया गृहीतोऽसौ न शब्दार्थः । यदा तु बाह्यवस्तुनि प्रत्यस्तो भवति तदा तस्मिन् प्रतिपत्ता बाह्यतया विपर्यस्तः क्रियासाधनसामर्थ्य तस्य मन्यत इति भवति शब्दार्थः ।" इति तत्त्वसंग्रहपञ्जिका[पृ० २८५ ]नुसारेण अस्याः कारिकाया भावार्थः ॥ ३ (°नुक्रमः ?) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org