________________
सत्कार्यवादनिरासः] द्वादशारं नयचक्रम्
७८६ नान्यत् सदिति । ततश्च रूपादि न सत् । रूपादेरसत्त्वे कार्यस्य सत्त्वे विपरीता संज्ञा क्रियते सतोऽसदिति असतश्च सदिति । कार्यसत्त्वं खरविषाणादीनां सदिति नामवद् नाममात्रमेव । कार्यासत्वनिवृत्त्येकान्तत्यागाच्चाभ्युपगमविरोधवत् स्ववचनादिविरोधाःयदि कार्य कथं सत्? अथ सत् कथं कार्यम्? कारणे कार्यसत्त्वन्यायात्तु स एवोभयसत्त्ववादः, तत्र चोक्ता दोषाः । सदेवकारे तु सदनवधृतेः पूर्वदोष एव।।
5
यस्य सिद्धान्ते रूपादयो न स्युराकाशादय एव स्युः? इति, अत्रोच्यते--तस्यैव उभयसद्वादिनः साङ्ख्यस्य कारणे कार्यसत्त्वसिद्धान्ताद् भवेदयं पक्षः, कारणाविनाभावित्वात् कार्यस्य कार्याभ्युपगमेऽभ्युपगतमेव कारणम्, किन्तु न नियम्यते 'कारणमसदेव संदेव वा' इति, यदि स्यादस्तु को वारयति? कार्यं तु सत्त्वेन नियम्यते । तत्रापि च द्वयी गति:--कार्यमेव सत् सदेव कार्यमिति वा, तत्र 'कार्यमेव सत्' इति कार्यसमीपे एवकारः क्रियते 'यत एवकारस्ततोऽन्यत्रावधारणम्' 10 [ ] इति 'कार्य सदेव' इत्यवधार्यमाणे कार्यस्य सत्त्वेन नियमात् सत्त्वस्य कार्येणानियमात् कारणेऽपि सत्त्वमिति पूर्वविचारितोभयसत्त्वपक्ष एव आपततीत्यवधारणवैफल्यं स्यात्, तच्चानिष्टम्, तस्मादेवकारप्रयत्नसाफल्यात् कार्यशब्दार्थादन्यत्र सच्छब्दार्थे तत्प्रतियोगिनि नियमः- कार्यमेव सदिति । तद्दर्शयति-सत्त्वं कार्य एव नियतं नान्यत् सदिति । ततः किम्? ५०९-१ ततश्च रूपादि न सदिति ते प्रसक्तम् । तस्य रूपादेः प्रत्यक्षमुपलभ्यमानस्यासत्त्वे कार्यस्यासतः 15 प्रत्यक्षाद्यनुपलभ्यस्य सत्त्वे विपरीता स्वमनोषिक या संज्ञा क्रियते सतोऽसदिति असतश्च सदिति सङ्गीत्याग्निमङ्गलनामवत् पश्चिमापश्चिमत्ववत् । यदपि च कार्यसत्त्वं खरविषाणादीनां 'सत्' इति नामेति नामवद् नाममात्रमेव नार्थ इति ।
किञ्च, कार्यासत्त्वनिर्वृत्त्येकान्तत्यागाच्च अभ्युपगतस्य 'एकान्तेन सत् कार्यम्' इत्यस्य च त्यागः, न हि कार्यमसदपि केनचित् प्रकारेणेष्यते त्वयेति अभ्युपगमविरोधवत्]ि स्ववचनादि-20 विरोधाः। यदि कार्य कथं सत् ? क्रियत इति हि कार्यम् । अथ सत् कथं कार्यमिति स्ववचनविरोधः। लोके कार्यासत्त्वं मत्वा तत्सिद्धयर्थप्रयत्नदर्शनाद् रूढे.कविरोधः। कुम्भकारादिवेतनदानादनुमानविरोधः। तथा दर्शनात् प्रत्यक्षविरोध इति ।
किञ्चान्यत्, कारणे कार्यसत्त्वन्यायात्त स एवोभयसत्त्ववादः, कारणाविनाभावित्वात कार्यस्य कार्यसत्त्वात् कारणसत्त्वमपीति प्रागुक्तादेव न्यायादुभयसत्त्ववादोऽवश्यम्भावी, तत्र चोक्ता 25
१ सदेव य० प्रतौ नास्ति ।। २ दृश्यतां पृ० १६४ पं० ३ ॥ ३ न तत्प्रतियोगिनि नियमः कार्यसदेवदिति प्र०॥ तुलना पृ० १६४ पं० ३ ।। ४ किंमततश्च भा० । किमत्ततश्च य० ॥ ५ 'सदिति नामवद्' इत्यपि पाठोऽत्र भवेत् ॥ ६ वृत्त्य प्र०॥ ७°द्धयप्रय य० ॥ ८ चेतन प्र०॥ ९ कारणं प्र० ॥ १० न्यायास्तु भा०। न्यायोस्तु य० ॥ ११ पृ० ७८३ पं० २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org