________________
७८५ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[दशमे नियमविध्यरे विलक्षणत्वात् । अथैवमपि रूपादि सत् स्वतत्त्वप्रादुर्भावात्मकं चेष्यते ततस्तद्वैलक्षण्यात् कार्यमसत्, अस्वतत्त्वाविर्भावात्मकत्वात्, अलातचक्रवत् । अथ सदेव कार्यमिष्यते ततः सत्त्वे स्वत एवाविर्भवेत्, सत्त्वात्, रूपादिवत् । सत्त्वाद् रूपादिवत् ............... सत्त्वाद् रूपादिवत्। भूम्यादिकार्यासत्त्वं सद्वैलक्षण्यादस्वरूपोत्पत्तेः................. भूम्यादिवत् । 5 तस्मादतुल्यविकल्पत्वात् सतोऽन्यस्वभावमेव कार्यम् ।
एवं तु अनाविर्भाव्यत्वाद् न प्रत्यक्षव्यक्तयः पृथिव्यादयः प्रतिनियतचक्षुराद्यविषयत्वात् खपुष्पवत् । रूपाद्येव तु यत् किञ्चित् प्रत्यक्षम्, स्वत एवाविर्भवितृत्वात्, इतरवत् । प्रत्यक्षत्वाद्यविरोधात् तदेव भवति ।
अथैवमुभयसत्त्वं त्यक्त्वान्यतरसत्त्वं कार्यासत्त्वाभ्युपगमपरिहारेण कार्यमेव सदिति। 10 तत्र कार्यसमीप एवकार इत्यन्यत्र सच्छब्दार्थे तत्प्रतियोगिनि नियमः सत्त्वं कार्य एव नियतं
पुनरिदानी भूम्यादिप्रादुर्भावतुल्यं रूपादिप्रादुर्भावं कार्यासत्त्वभयादिच्छतस्तथैव भूम्यादिकार्यासत्त्वं सद्वैलक्षण्यादस्वरूपोत्पत्तेरुत्थाप्य तत्पर्यवसानमेव चक्रकं तद्विपर्ययेण यावद् भूम्यादिवदिति गमनीयम् । तस्मादतुल्यविकल्पत्वात् सतोऽन्यस्वभावमेव कार्यमित्युपसंहारार्थः ।
किञ्चान्यत्, एवं त्वित्यादि । रूपादिषु विषयेषु चक्षुरादीनां प्रतिनियतं ग्रहणं 'चक्षुषा रूपमेव, 15 जिह्वया रस मे (ए)व' इत्यादि ग्रहणं व्यक्तिराविर्भावः स न स्यात्, चक्षुराद्यविषयत्वात्, रूपादय
एव हि प्रतिस्वं नियताश्चक्षुरादीनां विषयाः, पृथिव्यादयस्तु न प्रतिविविक्तरूपादिस्वतत्त्वा इत्यनाविर्भाव्याः, तस्मादनाविर्भाव्यत्वाद् न प्रत्यक्षव्यक्तयः पृथिव्यादयः प्रतिनियतचक्षुराद्यविषयत्वात् खपुष्पवत् । आदिग्रहणादनुमानाद्यविषयतापीति रूपादिसमुदायस्यावस्तुतेत्थमुक्ता ।
रूपाद्येव त्वित्यादि । 'यत् किञ्चित्' इति सामान्यवचनाद् विशेष्य पक्षीक्रियते-रूपमेव 20 प्रत्यक्षम्, स्वत एवाविर्भवितृत्वात्, इतरवदिति सामान्यवचनाद् रसवदिति विशेष्य दृष्टान्तः । एवं शेषाणामपि रसादीनां विशेष्य प्रत्यक्षत्वमितरदृष्टान्तसाध्यत्वादविरुद्धम्। प्रत्यक्षपूर्वकत्वादनु
मानत्वाद्यविरोधः । तस्मात् प्रत्यक्षत्वाद्यविरोधात् तदेव भवति रूपाद्येव वस्त्विति सिद्धम् । ५०८-२
__ अथैवं दोषवदित्युभयसत्त्वपक्षमुक्तदोषभयात् त्यक्त्वा 'अन्यतरं सत् कारणं रूपादि कार्य वाकाशादि' इतीष्यमाणे कार्यसद्वादिनो मे प्रातिपक्ष्येण कार्यासत्त्वाभ्युपगमे वादावसानं मा भूदिति 25 कार्यासत्त्वाभ्युपगमपरिहारेण कारणसत्त्वपक्षं त्यक्त्वा कार्यसत्त्वपक्षमेकमेवाश्रयेस्त्वं तत: 'कार्यमेव सत्' इत्यवधार्यमाणः पक्षः स्यात् । तन्मतं कैं: पुनर्वादी 'कार्यमेव सत्, न कारणम्' इति प्रतिपद्यते
१ सत्वभयादिस्थितस्तथैव भा० । सत्वंयावच्छितस्तथैव य० ॥ २ 'रसमेव गृह्णाति' इति विवक्षायां यथाश्रुतमपि साधु ॥ ३ तुलना पृ० ४३२ पं० १, पृ० १६४ पं० २॥ ४ कार्यास य०॥ ५ त्यक्षा भा०। त्वक्षा य०॥ ६ श्रयत्वं य० ॥ ७ व. य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org