________________
सत्कार्यवादनिरासः ]
द्वादशारं नयचक्रम्
भयसत्त्वं ततः सत्त्वाविशेषात् कारणानां शब्दादीनां कार्याणां चाकाशादीनामविशेषे सति यथा स्वरूपतत्त्वा एव शब्दादय उत्पद्यन्ते तथाकाशादयोऽपि तत्स्वतत्त्वा एवोत्पद्येरन् सत्त्वाविशेषाद् रूपादिवत् । तस्मात् तदतुल्यविकल्पत्वात् सतोऽन्यस्वभावं कार्यम् । अथ न रूपादिप्रादुर्भाववद् भूम्यादिप्रादुर्भावः तच्च कार्यं सदेवेति निश्चितं ततः कार्यमेव सद् न रूपादि । रूपादि असत्, सद्विलक्षणत्वात्, खपुष्पवत्, स्वरूपतत्त्वेन भूतत्वात् सतः कार्याद् 5
तत्रापि - - तद् यदि तावदुभयसत्त्वं प्रथमविकल्प इष्टः सत्त्वाविशेषात् कारणानां शब्दादीनां कार्याणां चाकाशादीनामविशेषः, सति चाविशेषे यथा स्वरूपतत्त्वा एव शब्द- स्पर्श-रूप-रसगन्धतत्त्वा एव शब्दादय उत्पद्यन्तेऽभिव्यज्यन्ते वा तथाकाशादयोऽपि तत्स्वतत्त्वा एवोत्पद्येरेन् नोनाधिकस्वभावाः । कस्मात् ? सत्त्वाविशेषात् रूपादिवत् । शब्द-स्पर्शाद्येकोत्त रपरतत्त्वोत्पत्तिर्मा ५०७-२ भूत्, इष्यते च सा । तस्मात् तदतुल्यविकल्पता सिद्धा, ततस्ततोऽन्यस्वभावं कार्यम् आकाशाद्यस - 10 दित्यर्थः ।
७८४
एतत्प्रसङ्गभयादथ न भूम्याद्येकोत्तररूपादिपररूपोत्कर्षापकर्षवैषम्य रहितविविक्तस्वरूपरूपादिप्रादुर्भाववद् भूम्यादिप्रादुर्भावो वैलक्षण्यादतुल्यविकल्पतेतीष्यते तच्च कार्य 'सदेव' इति निश्चितं ततः कार्यमेव सदस्तु न रूपादि, स्वपररूपा (प) प्रादुर्भाववैलक्षण्यादनयो रसतः सद्विलक्षणत्वात् रूपाद्यसत् स्थात्, सद्विलक्षणत्वात् खपुष्पवत् । सद्विलक्षणत्वं हेतोर्दर्शयति-स्वरूप- 15 तत्त्वेन भूतत्वाद् रूपादेः पररूपतत्त्वाविर्भाविनः सतः कार्याद् विलक्षणत्वादिति ।
अँथैवमपीत्यादि । रूपादिस्वतत्त्वप्रादुर्भाववैलक्षण्येऽपि रूपादि सत् स्वतत्त्वप्रादुभार्वात्मकं चेष्यते ततस्तद्वैलक्षण्या [ त्] कार्यमसत् प्राप्नोति अस्वतत्त्वाविर्भावात्मकत्वात्, एकोत्तररूपादिपररूपतत्त्वोत्पत्तिरस्वतत्त्वाविर्भावः । तच्च सद्वैलक्षण्यं कस्येव ? इत्यत आह--अलातचक्रवदिति, यथा उल्मुकं भ्राम्यमाणं कणमात्रस्वतत्त्वत्यागेन चक्राभासमुत्पद्यमान [म] सदेवं कार्यमपीति | 20 अथ मा भूद्दोष इति सदेव कार्यमिष्यते ततः सत्त्वे स्वत एव प्रादुर्भवे | त्] कार्यम्, यथा रूपं सद् रसरूपमनादाय प्रादुर्भवति रसोऽपि रूपरूपं तथा स्पर्श- शब्द - गन्धाः परस्पररूपम्, किन्तु स्वेनैव रूपेणाविर्भवन्ति तथाकाशादिकार्यमपि स्वरूपेणेवाविर्भवेत्, 'पररूपेण तु एकाद्युत्कर्षेणाविर्भवति' इतीष्ट[मतोऽनिष्ट]स्तुल्याविर्भावस्ते प्राप्तः सत्वात्, रूपादिवत् । इत्येवं प्रादुर्भाववैलक्षण्यादतुल्यविकल्पत्वमापादितं सद्भयो रूपादिभ्यः कार्यस्य । तदनिच्छतः प्रादुर्भावाविशेषप्रसङ्गपर्यवसानकं चक्रकं 25 तत्रैव प्रसङ्गे स्थितं 'सत्त्वाद् रूपादिवत्' इत्युत्थाप्य 'सत्त्वाद् रूपादिवत्' इत्येव ।
५०८-१
१ स्वास्वरूप भा० ॥ २ रं तोनाधिक प्र० ।। ३ इष्यंते चासा प्र० ।। ४ ततस्ततो प्र० ।। ५ कार्य संवेदेति प्र० ।। ६ स्वपररूपा य० । पररूपा भा ।। ७ अर्थदम य० ।। ८ अश्वतत्व भा० । अधतत्व य० ।। ९ भ्रस्य प्र० ।। १० प्रादुर्भवे कार्य प्र० ।। ११ कार्याणा प्र० । १२ पर्यवसानं य० ।। १३ चक्रकनिरूपणं प्रकारान्तरेण पृ० १७० इत्यादौ द्रष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org