SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ७८३ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [दशमे विध्यरे यथोच्योत] सत् कार्यम्, तद्यथा रूपादिभिः. यदेतत् सन्नाम ततोऽन्यदेव तु कार्यम्, तदतुल्यविकल्पत्वात्, रूपादिखपुष्पवत् । इह शब्दादीनां कारणानामाकाशादीनां च कार्याणामुभयेषामपि सत्त्वं कार्याकाशसत्त्वमेव वा इत्येतद् विकल्पद्वयं स्यात्, इतरयोरभ्युपगतप्रतिपक्षत्वाद् वादाभावात् । तद्यदि तावदु 5 इत्यादिरनुपकारिष्वप्युपकारिबुद्धया व्यवहारोऽतत्त्वः प्रेमवासनावशाद् भवति तथा समुदायोऽतत्त्वव्यवहारवासनया स्व[र]सात् क्रियते, नात्र कश्चित् परमार्थः । ____ कस्तहि परमार्थः ? परमार्थतस्तु पश्चात् पूर्व चाभावादङ्गेषु प्राक् चक्राक्षादिसंयोगाद् यथा रथस्यात्मा नास्ति चक्रादिविसंयोगीकृतेषु च पश्चान्नास्ति तथा संयुक्तावस्थायामप्यङ्गेषु स्वात्मरहित त्वान्नास्ति रथ इति। 10 यथोच्यो तेत्यादि । अनेनैव न्यायेन किञ्चित् कार्य घटपटादि बुद्धिपूर्वकं पुरुषेण क्रियते स्वत एव च कारणात् कार्यमुत्पद्यत इत्येतद् मृषेत्येतदुक्तं भवति। तत् पुनः कार्यमुत्पद्यते कारणादिति यथान्ये मन्यन्ते यथा तु युज्यत इति प्रदर्शनार्थमाह तैर्यथोच्यते सत्कार्यम्-तद्यथा रूपादिभिरित्यादि, शब्दादितन्मात्राण्यत्र रूपादिग्रहणेन गृहीतानि वाचोयुक्तिमात्रेण प्रक्रियावशाद् भिन्नत्वात् । इयमाकाशादीनां भूतानां शब्दाद्यकोत्तरोत्कर्षेण सन्निवेशात् कार्यत्वे प्रक्रिया "गरान्तरे व्याख्यातत्वान्न 15 पुनख्यिायते। साधनम्--यदेतत् सन्नाम ततोऽन्यदेव तु कार्य सद्वयतिरिक्तस्वभावम्, सत्स्वभावं न ५०७-१ भवतीत्यर्थः । कस्मात् ? तदतुल्यविकल्पत्वात्, यस्य येनातुल्यो विकल्पस्तत् ततोऽन्यदेव, अन्य स्वभावम्, तदात्म न भवतीत्यर्थः । किमिव ? रूपादिखपुष्पवत, यथा रूपादयः सन्तः खपुष्पमसत्, तत् तैस्तुल्यविकल्पं न भवति तथा कारणैः सद्धी रूपादिभिः कार्यमाकाशादि तुल्यविकल्पं न भवति, 20 तस्मात् खपुष्पवत् सतस्ततोऽन्यस्वभावमिति । एतस्य साधनस्यासिद्धपक्षधर्मशङ्कानिराकरणार्थं व्याख्यानमारब्धुकामः स्वयमेव पृच्छति परोक्त्या व्याख्यापयितुम् कथमतुल्यविकल्पः? इति । चतुर्षु भङ्गेषु द्वौ भङ्गावुपयोज्याविति तावेवोपन्यस्यतिइह शब्दादीनामित्यादि । शब्दादयः कारणानि, वियदा[द]यः कार्याणि, तेषामुभयेषामपि सत्त्वमित्येको विकल्पः । द्वितीयः- कार्याण्याकाशादोन्येव सन्तीति । न कारणसत्त्व-कार्यासत्त्वविकल्पो 25 नोभयासत्त्वविकल्पो वा । कस्मात्? उक्ताभ्यामित"योस्तयोरभ्युपगतस्य सत्कार्यवादस्य प्रतिपक्षत्वाद् मत्पक्षत्वमेवातो वादाभावादेतौ द्वावेवोपयोज्यौ । १ पूर्व च भावा य० ॥ २ 'सत एवं' इत्यपि पाठोऽत्र भवेत् । तुलना पृ० १६८ पं० ८॥ ३ 'त्पद्येत य० ॥ ४ ततःपुनः य० ।। ५ पृ० २६५-२६६ ॥ ६ दृश्यतां पृ०४३० पं०१।। ७++ एतदन्तर्गतः पाठो य० प्रतौ नास्ति ।। ८ ततैस्तुल्य य० ॥ ९°माप्तुकामः य०॥ १० विकल्पो प्र०॥ ११ रयोरभ्युप य० ॥ १२ गतस्यासत्का प्र० ।। ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy